________________
सूत्र-प
४३
શ્રી તત્ત્વાર્થાધિગમસૂત્ર અધ્યાય-૭ मैथुनमपि दुःखमेवेत्यवधार्यते, रागद्वेषावात्मा - स्वभावः कारणं यस्य तद्दुःखमेव रागद्वेषात्मकत्वाद्धिसादिवत्, स्यादेतदित्यादिना ग्रन्थेनाशङ्कते, प्रसिद्धिरियं योषितामुपभोगे दशनच्छदपानाक्षिचुम्बनवपुःपरिरम्भणपीन
स्तनतटीनखमुखावदारणगुह्यसंयोगबीजनिसर्गसमकालभाविस्पर्शनेन्द्रियद्वारकं सुखमनुभवप्रमाणसिद्धं भूयसां प्राणिनां अपह्नुवानस्य प्रतीतिप्रत्यक्षविरोधाववश्यं भाविनावित्यारेकिते भाष्यकृदाह - 'तच्च नेत्यादि, तदित्यनेन स्पर्शनसुखमभिसम्बध्यते, न खलु तत् सुखं दुःखमेवेत्यभिप्रायः, वक्ष्यमाणपामनदृष्टान्तबलात् प्रतीतिप्रत्यक्षविरोधावनास्पदौ, इतरस्तमेव दृष्टान्तमभिध्यायन्नाह - कुत इति, कस्मादेतत् स्पर्शनसुखं दुःखमेव प्रतिपत्तव्यं, युक्त्यन्तरात्, साध्यसाधनसंगतेन हि साधर्म्यदृष्टान्तेन प्रतिपत्तिरुपजायते, साध्यसाधनशून्येन व्यतिरेकदृष्टान्तेन वेति, भाष्यकार आह-'व्याधिप्रतीकारत्वादि' त्यादि, राजपुत्रक्षयकुष्ठादयो व्याधिविशेषास्तेषां प्रतीकारः प्रतिक्रिया तन्निदानपरिहारेण भेषजोपयोगः पथ्यासेवनं च, उद्भूतो हि व्याधिः शरीरमनसो बाधामाधत्ते, बाधाप्रतिक्षेपश्च भेषजाद्युपयोगसाध्यः, कर्म्मणां च क्षयोपशमोदयादयः क्षेत्रकालद्रव्यभावाद्यपेक्षा न खल्वात्यन्तिकं सुखोपजननमाधातुं समर्थाः, दुःखप्रतिबन्धमात्रकारित्वात्, मूढाश्च तमवस्थाविशेषं सुखमिति मन्यन्ते, व्याधिश्च मकरध्वजः प्रथमोद्दिष्टव्याधितुल्यविपाकत्वात् ।
हेतुविवरणायाह- असुखे ह्यस्मिन्निति दुःखमेव भ्रान्ता: सुखमित्युपचरन्ति मोहादज्ञानाच्चेत्यतोऽसुखं दुःखं तस्मिन् सुखबुद्धिर्यथा गण्डादिषु पाकाभिमुखेषु परिपक्वेषु च तीव्रवेदनापरिगतस्य जन्तोस्तत्पाटनपूयनिःसरणेन वेदनामात्रप्रशमः तथा पुरुषवेदाद्युदयात्तीव्रार्त्तिभाजोऽवधीरितविवेकबलस्य यत्किञ्चनकारिणो ग्रहाविष्टस्येवार्त्तध्यानोपगतस्य स्त्र्यादिसंयोगे विलपतोऽसभ्यानि प्राप्तमूर्च्छागमस्येव बाढं क्लिश्नतो बीजलेशानुत्सृजतः पूयलवानिव सुखमभिमन्यमानस्य तस्य तत्