________________
શ્રી તત્ત્વાર્થાધિગમસૂત્ર અધ્યાય-૭
स्पष्टयति-'दुःखमेव चे'त्यादिना, हिंसादिष्विति हिंसानृतस्तेयाब्रह्मपरिग्रहेषु विषय भूयमापन्नेषु दुःखहेतुषु दुःखस्वभावेषु च दुःखबहुलतामेव भावयेदिति, केन प्रकारेणेत्याह-यथा मम अप्रियं न प्रीतिकारी दुःखम्अनिष्टसंयोगनिमित्तं शरीरमन:पीडात्मकं व्यापत्तिपर्यवसानम्, एवं सर्वेषां सत्त्वानामप्यप्रियं, वधबन्धच्छेदपाटनोल्लम्बनादिहेतुकमात्मानुमानादवसेयमित्येवमालोचयतः कृतिनो मनसि निश्चितमवतिष्ठतेऽतो हिंसाया व्युपरमः श्रेयानिति ।
अतोऽनृतभाषणमपि दुःखमेवेत्यभिधित्सुराह - 'यथा ममेत्यादि मिथ्याभ्याख्यानं प्राग् व्याख्यातं तेन मिथ्याऽभ्याख्यानेनालीकाध्यारोपेणाभ्याख्यातस्याभिमुखमाख्यातस्याभियुक्तस्य प्रकाशितवानिदं कृतमुक्तं चेति तन्निमित्तं यथा मम प्रकृष्टं तीव्रं दुःखं भूतमुत्पन्नपूर्वमित्यर्थः, सम्प्रति वा भवत्यलीकाध्यारोपात्, तथा सर्वसत्त्वानां तादृगेव तीव्रं दुःखमभ्याख्यानहेतुकमुपजायतेऽस्मिन्नेव लोके, अमुष्मिन् पुनर्लोके मिथ्याऽभ्याख्यानपरो यत्र यत्र जन्म प्रतिलभते तत्र तत्र तादृशैरेवाभ्याख्यानैरभियुज्यमानः सदा दुःखमनुभवतीत्यनृताद्व्युपरमः श्रेयानिति ।
हिंसानृतभाषणदुःखवत् स्तेयमपि दुःखमेवेत्याह-यथा ममेत्यादि, यथा मम स्वद्रव्यस्येष्टस्य वियोगेऽपहारक्रियया तस्करैः कृते दुःखं मानसं शारीरं वा पूर्वमभूद्भवति चाधुना तथा सर्वसत्त्वानामतः स्तेयाद्व्युपरमः श्रेयानिति ।
૪૨
सूत्र-प
यथा च हिंसानृतस्तेयानि दुःखस्वभावानि तथा रागद्वेषात्मकत्वान्मैथुनं दुःखमेवेत्यादि पूर्वदुःखतुल्यतामतिदिशति, मायालोभौ रागः क्रोधमानौ द्वेषः, माया-छद्मरूपा तदाकारपरिणतश्च हिंसानृतस्तेयेषु प्रवर्त्तते, लोभोऽपि गार्ध्यलक्षणः तत्परिणामश्च मांसादिगार्ध्यादुक्ताऽवग्रहणेन चौर्येण वा तेषु प्रवर्त्तते, तथा क्रोधमानाभ्यामपि प्रेरितो हिंसादिषु प्रवर्त्तते इत्यत्यन्तप्रसिद्धं, मैथुनस्यापि तावेव रागद्वेषौ निदानं रागद्वेषकारणत्वाच्च
"