________________
उ०
શ્રી તત્ત્વાથધિગમસૂત્ર અધ્યાય-૭ .. सूत्र-४ अनुबद्धं-प्रसक्तं वैरमस्येति नित्यानुबद्धवैरः सर्वदाप्रवृत्तवैरसन्तानश्च, तस्मान्नित्योद्वेजनीयो नित्यानुबद्धवैरश्च स्यात्, इहैव लोके वधस्ताडनं कशादिभिर्बन्धः पश्चात् पिण्डनं-निगडादिकः परिक्लेशो-अङ्गष्ठग्रहणोष्णस्थापनजलावसेकनादिः, आदिग्रहणादुल्लम्बनशिरच्छेदनादि प्रतिलभते प्रतिप्राप्नोति, प्रेत्येति मृत्वा अशुभां गतिं नारकतिर्यक्कुमानुषादिकां प्राप्नोति, गर्हितो निन्द्यः, प्राक्तनजन्मोपात्ताशुभकर्मविपाकोऽयमस्य वराकस्येत्येवं भावयतो विवेकबलात् सर्वसत्त्वदयापरो भवति, अतो हिंसायास्त्यागो-व्युपरमः श्रेयानिति । यथा प्राणातिपातकारी प्रत्यपायान् प्राप्नोति तथेति तथा अनृतवाद्यपि अनृतं वक्ष्यमाणलक्षणं तद्वादी अश्रद्धेयं वचनमस्येति, इहैवेति इहलोके जिह्वाछेदादीन् प्रतिलभते प्राप्नोतीति, आदिशब्दात् कर्णनासिकाकरचरणच्छेदपरिग्रहः,
तथा मिथ्या-अलीकमभ्याख्यानमनृतवचनं तेनेति अभ्याख्यानेन दुःखितेभ्यः, चशब्दः पूर्वदोषापेक्षः, किम्भूतेभ्यः ?-‘बद्धवैरेभ्यः' बद्धम्-अविच्छिन्नं वैरं येषां तेभ्यः बद्धवैरेभ्यः तदधिकानिति जिह्वाछेदादिभ्योऽप्यतिशयेन यातनाप्रकारान् मिथ्याभ्याख्यानाधिकत्वाद् दुःखहेतून् वधबन्धनादीन् आप्नोति, तीव्राशयो हि तीव्रस्थित्यनुभावमेव कादत्ते, 'प्रेत्ये'त्यादिना आमुष्मिकं फलमादर्शितं, यस्माच्चैवंविधो विपाकोऽनृतवचनस्य तस्माद् व्युपरमः श्रेयानिति ।
यथाऽलीकानुष्ठानप्रत्ययोऽयमुक्तः तथा स्तेनः परकीयद्रव्याद्यपहारे प्रसक्तचित्तः सर्वस्य इति अपह्रियमाणद्रव्यादिस्वामिनः उद्वेगं जनयति, इहैवेत्यादिना, हस्तादीनामवयवानां छेदनं शरीरात्, पृथक्करणं भेदनं तु सन्निविष्टानामेव वेधनपाटनादिकं, वध्यपानमिति वध्यो-व्यापाद्यस्तस्य पानं-मद्यपानं तस्य प्रधानत्वात्, तत्पूर्वकमन्यदपि कणवीरकुसुममालाभरणस्वरघटिकावलम्बनादि मारणं व्यपरोपणं आदिग्रहणात् स्वमांसखादनादि प्रतिलभते, प्रेत्येति गतार्थं, अतश्चौर्याद् व्युपरमः श्रेयानिति ।