________________
૩૧
सूत्र-४
શ્રી તત્ત્વાર્થાધિગમસૂત્ર અધ્યાય-૭ __ यथा प्राणातिपातालीकस्तेयप्रवृत्ता दुःखं संस्पृशन्ति तथाऽब्रह्मचारीत्यादि, अब्रह्मचारी मैथुनसेवी विभ्रमो विलासविशेषः तेनोद्भ्रान्तं चित्तं चलम्-अनवस्थितं यस्येति, विप्रकीर्णेन्द्रिय इति, तुच्छे विशिष्टे च विषये प्रवर्तितेन्द्रियवृत्तिः, मनोज्ञेषु शब्दादिषु रागाङ्गेषु रागानुरक्तः अमनोज्ञेषु द्विष्टेषु शब्दादिषु द्वेषाभ्युक्तात्मस्वरूपः मदान्धो गज इवेत्यादिना हस्तिमूर्खेण सह साधर्म्य दर्शयति, इतरथाऽपि तिर्यग्जातिः हिताहितप्रवृत्तिनिवृत्तिपर्यालोचने अक्षमाः, स्वल्पज्ञानक्षयोपशमत्वात्, अतिशयेन तु मदकाले गुञ्जन्मनोहारिध्वनिमधुकरालीढमदवारिनिर्भरस्नपितकपोलभित्तिः अनादृताधोरणव्यापारितनिशिताङ्कशतिग्माग्रवेधजनितव्यथोन्मत्तगज इव शर्म-सुखं नोपलभते नावाप्नोतीतियावत्, विभ्रमोद्घान्तचित्तत्वात् विप्रकीर्णेन्द्रियत्वाच्चेति युक्तिद्वयम्, अवितृप्तस्य च कुतः सुखेन सम्बन्ध इति ?, मोहाभिभूतश्चेत्यादिना मोहनीयकर्मोदयं सूचयति, स्त्रीपुंनपुंसकवेदोदयाभिभूतः स तथा विजृम्भत इति, चशब्दात् पूर्वोक्तविधिसमुच्चयः, इदमकार्य इदं कार्यं वा नाभिजानाति ग्रहाविष्टपुरुषवत् परवशत्वात्, ततश्च न किञ्चिदकुशलं न प्रारभते, निर्विवेकत्वात् सर्वमेव कुशलं मन्यत इत्यभिप्रायः । 'परदारे'त्यादिना ऐहिकामुष्मिकप्रत्यवायोपप्रदर्शनं, परेषां दाराः परदाराः-परपरिगृहीतयोषितः, श्रुतज्ञानप्रतिषिद्धश्च सर्वो मैथुनव्यापारः परदारशब्दवाच्यः, तदभिगमनं-तदासेवनं तज्जनितानिहैव वैरपरम्परा शिरच्छेदनं [?लिङ्गच्छेदनं] ताडनं बन्धनं द्रव्यापहारमादिग्रहणाद् यातना नानाविधाः [?इत्येतानेवापायान्] प्रतिलभत इत्येत एव प्रत्यपायाः, 'प्रेत्य चे'त्यादिना, पारलौकिकप्रत्यपायप्रदर्शनं, तस्मादब्रह्मणो व्युपरमः श्रेयानिति ।
यथा प्राणातिपातादिप्रवृत्तः प्रत्यपायेन युज्यते तथा परिग्रहवानित्यादि शास्त्राननुज्ञातो मूर्छास्पदं च परिग्रहः तद्वान् परिग्रहवानिति,