________________
૧૮ શ્રી તત્ત્વાર્થાધિગમસૂત્ર અધ્યાય-૭
सूत्र-3 विस्फारितलोचनः प्रेक्षते विकचकुवलयविपुलदलच्छविनयनयुगलमस्याः कर्णजाहमकटाक्षमप्यालोकितं झगिति मनसिजज्वलनमादीपयति, किमुत विकटकटाक्षकवचितम् ?, एवं यथाविभागसन्निविष्टावयवानि श्रोत्रघ्राणवदनपयोधरभरजघनस्थलादीनि वाच्यानि, त्वगिन्द्रियभेदत्वात् स्तनकलशाडुपन्यास इत्येवं तदालोकायुपरतिः श्रेयसीति भावयेत् ३ ।
तथा पूर्वरतानुस्मरणवर्जनं प्रव्रज्यापर्यायात् पूर्वो गृहस्थपर्यायस्तत्र रतं-क्रीडितं विलसितं यदङ्गनाभिः सह तस्यानुस्मरणात् कामाग्निः तत्स्मरणेन्धनानुसन्धानतः सन्धुक्षते अतस्तद्वर्जनं श्रेय इति भावयेत् ४ ।
तथा प्रणीतरसभोजनवर्जनमिति, प्रणीतो वृष्यः स्निग्धमधुरादिरसः क्षीरदधिनवनीतसपिर्गुडतैलपिशितमधुमद्यापूपादि तदभ्यवहारो भोजनं ततो मेदोमज्जाशुक्रायुपचयस्तस्मादपि मोहोद्भवः, अतः प्रणीतरसाभ्यवहारो वर्जनीय इत्यात्मानं भावयेत् ब्रह्मचर्यमिच्छन्निति ५ ।
किञ्चनं-बाह्याभ्यन्तरपरिग्रहः अविद्यमानकिञ्चनः अकिञ्चनः तद्भाव आकिञ्चन्यम्-अपरिग्रहिता तद्भावनाः पञ्च, तदभिधित्सयेदमाह'पञ्चाना'मित्यादि, पञ्चानामिन्द्रियाणां अर्थाः-विषयाः स्पर्शादयः पञ्चैव तेषां मनोज्ञा-रागहेतवः तेषां मनोज्ञानाम्-इष्टानां स्पर्शरसगन्धवर्णशब्दानां प्राप्तौ-ग्रहणे सति गाय॑ स्नेहस्तेषु रागपरिणामोऽतस्तद्वर्जनं श्रेयः, तथा अमनोज्ञानाम्-अप्रीतिहेतूनां ग्रहणे द्वेषवर्जनं द्वेष:-क्रोधमानपरिणामः तत्त्यागात् पञ्चैता भावनाः भाव्यमानाः प्रतिक्षणमाकिञ्चन्यं परिपूरयन्ति, ममत्वलक्षणो भावतः परिग्रहस्तद्व्यवच्छेदादपरिग्रह इति ॥७-३॥
ટીકાર્થ– અણુવ્રતની બંધ-વધાદિ અતિચારના ત્યાગ રૂપ(વિશેષ ભાવનાઓ) અને અપાયાવદ્યદર્શનાદિ સામાન્ય ભાવનાઓ આગળ કહેવાશે. ઉપભોગના અભિલાષી અને બહુ પ્રમાદી જીવોથી ધૃતિ, સંહનનની ઘણી હાનિ થવાના કારણે મહાવ્રતનું પાલન કઠીન હોવાથી