________________
सूत्र-3 શ્રી તત્ત્વાર્થાધિગમસૂત્ર અધ્યાય-૭
૧૭. साधवस्तेभ्यः पूर्वपरिगृहीतक्षेत्रेभ्योऽवग्रहो याच्यः, तदनुज्ञाताद्धि तत्रासनं, अन्यथा स्तेयं स्यात्, तदनुज्ञायां तु प्रतिश्रयादि समस्तं गृह्णीयादित्येवमात्मानं भावयेत् ४ ।
तथाऽनुज्ञापितपानभोजनमिति पञ्चमी भावना, अनुज्ञापितं-अनुज्ञां प्रापितं-अनुज्ञया स्वीकृतं पानभोजनं सूत्रोक्तेन विधिनाऽपचमानकं पाषण्डम(न)नुप्रविश्य व्यपगताङ्गविकारः पिण्डैषणोपयुक्तः अकृतकारितानुमतमतिसृष्टं कल्पनीयमानीय गुरवे निवेद्यालोचनापूर्वकमभ्यनुज्ञातो गुरुणा मण्डल्यामेकको वा भुञ्जीत, भुजिञ् पालनेऽभ्यवहारे च व्याख्येयः, ततश्च यावत्किञ्चिद्धर्मसाधनमुपकरणमौधिकौपग्रहिकभेदं तत् सर्वमनुज्ञातं गुरुणा वन्दनपुरस्सरं गुरुवचनविधिना परिभोक्तव्यम्, एवमात्मनि वासनामादधानो नातिक्रमत्यस्तेयव्रतमिति ५ ।
अब्रह्मसेवननिवृत्तिः ब्रह्मचर्यं तस्यापि पञ्च भावनाः, तद्यथा-स्त्रियो रूढ्या देवमानुषभेदाद्विविधाः, पशुग्रहणात्तिर्यग्जातिपरिग्रहः, तत्र वडवावालेयीगोमहिष्यजाविकादिषु सम्भवति मैथुनम्, एताश्च सचित्ताः, अचित्ताः स्त्रियः पुस्तलेपचित्रकर्मादिषु बहुप्रकाराः, पण्डकास्तृतीयवेदोदयवर्त्तिनो महामोहकर्माणः योषास्यसेवनाभिरताः क्लीबा इति प्रसिद्धाः, कृतद्वन्द्वैरेभिः संसक्तं-आकुलं शय्यते यत्रास्यते च तच्छयनासनं प्रतिश्रयसंस्तारकासनादि, तच्च बह्वपायत्वाद्वर्जनीयमित्येवमात्मानं भावयेत् १ ।
तथा स्त्रीपशुपण्डकानां असन्निधानेऽपि रागसंयुक्तः स्त्रीणां कथा स्त्रीकथा रागसंयुक्तस्य स्त्रीकथा अथवा रागसंयुक्ता चासौ स्त्रीकथा चेति रागानुबन्धिनी देशजातिकुलनेपथ्यभाषागतिविभ्रमेङ्गितहास्यलीलाकटाक्षप्रणयकलहशृङ्गाररसानुविद्धा वात्ययेव चित्तोदधेरवश्यंतया विक्षोभमातनोति तस्माद्वर्जनं श्रेय इति भावयेत् २ ।
तथा स्त्रीणां मनोहरेन्द्रियालोकनवर्जनं मनोहराणि मानोन्मानलक्षणयुक्तानि दर्शनीयानि मजावन्तीन्द्रियाणि योषितामपूर्वविस्मयरसनिर्भरतया