________________
૧૬ શ્રી તત્ત્વાર્થાધિગમસૂત્ર અધ્યાય-૭
सूत्र- भयशीलो भीरुः, तच्चैहिकादिभेदात् सप्तधा मोहनीयकम्र्मोदयजनितम्, उदयाच्च तस्यानृतभाषणं सुलभं भवतीत्यभीरुत्वं भावयेद्, अभीरुश्च न जातुचिद्वितथं भाषते, तस्करोऽयं पिशाचो वा मया रजन्यां दृष्ट इति, तस्मानिर्भयवासनाध्यानमात्मनि विधेयमिति ४ ।।
हास्यं हसनमोहोद्भवः परिहासः तत्परिणतो ह्ययमात्मा परिहसन् परेण सार्द्धमलीकमपि ब्रूयात्, तत्परिजिहीर्षया च हास्यप्रत्याख्यानमभ्युपेयं, एताः पञ्चापि भावनाः भावयन् सत्यव्रतरक्षणक्षमो भवतीति ५ ।
तथा अदत्तादानविरतेः पञ्चैव भावनाः, तद्व्याचिख्यासयाऽऽह'अस्तेयस्य चे'त्याधुपन्यस्यति, आलोच्यावग्रहो याचनीयः, स चार्षे पञ्चप्रकारः पठितो देवेन्द्रराजगृहपतिशय्यातरसार्मिकभेदेन, अत्र पूर्वः पूर्वो बाध्य उत्तर उत्तरो बाधक इति सञ्चिन्त्य यो यत्र स्वामी स एव याच्यः, अस्वामियाचने तु दोषबाहुल्यमुक्तमार्ष एव, अकाण्डताडनाबैहिकमामुष्मिकमदत्तपरिभोगजनितं, तस्मादालोच्यावग्रहो याच्य इत्येवमात्मानं भावयेत्, इत्थं च भावयन्नादत्तादाने प्रवर्त्तत इति १ ।
सकृद्दत्तेऽपि परगृहे स्वामिनो भूयो भूयोऽभीक्ष्णावग्रहयाचनं कार्य, अभीक्ष्णं नित्यं मुहुर्मुहुः पूर्वलब्धपरिग्रहो ग्लानाद्यवस्थासु मूत्रपुरीषोत्सर्गपात्रकरचरणप्रक्षालनस्थानानि दातृचित्तपीडापरिहारार्थं याचनीयानि, एवं च याञ्चामाचरन्नादत्तादानजनितेनागसा स्पृश्यते २।
तथा एतावदित्यवग्रहावधारणं एतत् परिमाणमस्यैतावत् परिमितं सर्वतः क्षेत्रमवग्रहीतव्यं इत्येतदेवावधारणं सर्वतश्च परिणामावधारणं, तदभ्यन्तरवर्तिनीमूर्ध्वस्थानादिक्रियामासेवमानो न दातुः उपरोधकारी भवति, याञ्चाकाल एव चानवधारणे विपरिणतिरपि चेतसि स्याद्वदान्यस्येति, आत्मनोऽपि चादत्तपरिभोगजनितः कर्मबन्ध इति ३ ।
'समानधार्मिकेभ्य' इत्यादि धर्मं चरन्ति-आसेवन्त इति धार्मिकाः, समानाः-तुल्याः प्रतिपन्नैकशासनाः सम्यक्त्वादिमुक्तिसाधनसमन्विताः