________________
શ્રી તત્ત્વાર્થાધિગમસૂત્ર અધ્યાય-૭
आदानं-ग्रहणं निक्षेपणं-मोक्षणमौघिकौपग्रहिकभेदस्योपधेरादाननिक्षेपणयोः समितिः-आगमानुसारेण प्रत्युपेक्षणप्रमार्जने ४ । आलोकितपानभोजनमिति प्रतिगेहं पात्रमध्यपतितपिण्डश्चक्षुराद्युपयुक्तेन प्रत्युपेक्षणीयः तत्समुत्थागन्तुकसत्त्वसंरक्षणार्थम् आगत्य च प्रतिश्रयं भूयः प्रकाशवति प्रदेशे स्थित्वा सुप्रत्यवेक्षितं पानभोजनं विधाय प्रकाशप्रदेशावस्थितेन वल्गनीयम् ५ ।
सूत्र-3
૧૫
इतिकरणः प्राणवधविरतेर्भावनेयत्ताव्यवस्थापनार्थः, एवमेताः पञ्च भावना मुहुर्मुहुर्भावयन्-वासयन् बहुलीकुर्वन् सकलामहिंसां पातुं प्रत्यलो भवतीति । सम्प्रति सत्यवचनस्य भावनाः पञ्च प्रतिपादयन्नाह'सत्यवचनस्ये' त्यादि सत्यम् - अवितथं सद्भूतार्थप्रतिपत्तिकारि असद्भूतं च - विपरीतार्थप्रतिपादनं प्राण्युपघातञ्च 'अनुवीची 'ति देशीवचनमालोचनार्थे वर्त्तते, भाषणं - वचनस्य प्रवर्त्तनं, अतोऽयमर्थः - समीक्ष्यालोच्य वचनं प्रवर्त्तयितव्यम्, अनालोचितभाषी कदाचित् मृषाऽप्यभिदधीत, ततश्चात्मनो लाघववैरपीडाः फलमैहिकं, परसत्त्वोपघातश्च नियत इति, तस्मात् समीक्ष्योदाहरणेनात्मानं भावयन् न मृषावचनजनितेनैनसा सम्पृच्यते १ ।
क्रोधः- कषायविशेषो मोहकम्र्म्मोदयनिष्पन्नोऽप्रीतिलक्षणः प्रद्वेषप्रायस्तदुदयाच्च परवान् वक्ता स्वपरनिरपेक्षो यत्किञ्चनभाषी मृषापि भाषेत अतः क्रोधस्य प्रत्याख्यानं - निवृत्तिरनुत्पादो वा श्रेयानित्यात्मनि भावयेद्, एवं च वासयन् सत्यवादितां न व्यभिचरतीति २ ।
लोभ:- तृष्णालक्षणः कूटसाक्षित्वादिदोषाणामग्रणीः समस्तव्यसनैकराजा जलनिधिरिव दुर्भरः, कर्मोदयाविर्भूतो रागपरिणामस्तदुदयादपि वितथभाषी भवति, अतः सत्यव्रतमनुपालयता तदाकारपरिणामः प्रत्याख्येय इति भावनीयम् ३ |