________________
શ્રી તત્ત્વાધિગમસૂત્ર અધ્યાય-૭"
सूत्र-3 अभ्यस्यन्ते, अनभ्यस्यमानाभिर्भावनाभिर्मलीमसीभवन्ति अनभस्यमानविद्यावत् महाव्रतानीति एकैकस्येति व्रतस्य, सामानाधिकरण्येन षष्ठी, न समुदितानां पञ्चानामपीति, ननु च पञ्च पञ्चेति वीप्सा विवक्षिता अत एकैकस्येति लप्स्यते एव, अन्यथा वीप्सानर्थक्यं स्यादिति, उच्यते, सामान्यविशेषाभ्यां व्याख्यातृभिः प्रतिपद्यतेऽर्थः, पञ्चविधस्य व्रतस्येति सामान्येनोपक्रम्य पुनर्विशेषेणैकैकस्येत्याह, समुदाये मा भूदिति, पञ्च पञ्चेति वीप्सायां द्विर्वचनं, अपरे तु सूत्रमधीयते-तत्स्थैर्यार्थं भावनाः पञ्च पञ्चश इति । ते चैवमभिदधति-सङ्ख्यावाचिनः प्रातिपदिकाद् वीप्सायां द्योत्यायां 'कारकात् शस्प्रत्ययोऽन्यतरस्या'मिति द्वौ द्वौ ददाति द्विशो ददातीति वाक्यं वृत्तिश्च, तदेतदनुपपन्नं, यतः शस्प्रत्ययान्तेन व्रतानि भावना वा सम्बध्येरन् ?, यदि व्रतानि ततः षष्ठ्यन्तेन सम्बन्ध्यानि पञ्चानामिति, ततोऽकारकत्वात् षष्ठ्याः शस्प्रत्ययो न लभ्यते, अथ भावनाभिः सम्बन्धस्ततः पञ्च पञ्च भावना भवन्तीति पञ्चश इति वक्तव्यं, द्वितीयं पञ्चग्रहणं न कर्त्तव्यं, तत्स्थैर्यार्थं भावनाः पञ्चश इति पठितव्यं, एवमुभयथापि न घटते शस्प्रत्ययः, अतस्तत्स्थैर्यार्थं भावनाः पञ्च पञ्चेति न्याय्यं सूत्रं, 'तद्यथे'त्यनेन प्रस्तुतभावनोपन्यासः, अहिंसायास्तावदिति, अहिंसा-प्राणातिपातविरतिः, तावच्छब्दः क्रमावद्योतकः, अस्य प्रथममुच्यते, पश्चात् मृषावादादिविरतेरभिधास्यते, ईरणमीर्या गमनं तत्र समितिः-सङ्गतिः श्रुतरूपेणात्मनः परिणामः तदुपयोगिताः-पुरस्तायुगमात्रया दृष्ट्या स्थावरजङ्गमानि भूतानि परिवर्जयन्नप्रमत्त इत्यादिविधिरीर्यासमितिः १ । __ मनसो गुप्तिः मनोगुप्तिः-मनसो रक्षणमार्तरौद्रध्यानाप्रचारः धर्मध्याने चोपयोगे मनोगुप्तिः २ ।
एषणा गवेषणग्रहणग्रासभेदात्रिधा, तत्रासमितस्य षण्णामपि कायानामुपघातः स्याद् अतस्तत्संरक्षणार्थमेषणासमितिः-समस्तेन्द्रियोपयोगलक्षणा ३ ।