________________
સૂત્ર-૩૪
શ્રી તત્ત્વાર્થાધિગમસૂત્ર અધ્યાય-૭
૨૪૭
દાતૃવિશેષ આ પ્રમાણે છે- ગ્રાહકમાં અસૂયાનો અભાવ, ત્યાગમાં વિષાદનો અભાવ, અપરિભાવિતા, આપવાને ઇચ્છનારનો, આપી રહેલાનો અને જેણે આપી દીધું છે તેનો પ્રીતિયોગ, કુશલ અભિસંધિતા દષ્ટફલાનપેક્ષિતા, ઉપધાનો અભાવ, નિદાનનો અભાવ વગેરે દાતૃविशेष छे.
पात्रविशेष भेटले सम्यग्दर्शन - ज्ञान- यारित्र-तपथी युक्तता (७-३४) टीका- विध्यादयः कृतद्वन्द्वास्तेषां विशेष:- अतिशयः प्रकर्षाप्रकर्षयोगः तस्माद्विध्यादिविशेषात् धर्मविशेषः, धर्मश्च विध्यादिचतुष्टयापेक्षः, तथाहि-विध्यादिचतुष्टयप्रकर्षाद्देशकालोपपन्नकल्पनीयदानादेकान्तेनैव निर्जरा प्रकर्षवर्तिनी, मन्दविध्यादिदानान्मंदा, मध्यादिदानान्मध्या, एतदेव भाष्येण विविच्य दर्शयति-विधिविशेषादित्यादिना विधिविशेषादिति पञ्चम्याः प्रागुक्तं लक्षणं, विधानं विधि:-विशिष्टप्रकारः तदतिशयात् पुण्यनिर्जरातिशयः, तदतिशयात् स्वर्गफलविशेषः मुक्तिफलप्राप्तिर्वा, द्रव्यमन्नादि तद्विशेषात्, तथा दातृविशेषात् पात्रविशेषाच्च तद्विशेष इति तच्छब्देन दानधर्मः परामृश्यते, दानं त्यागस्तदवाप्यो धर्मो दानधर्मः तस्य विशेषो - भेदः प्रकर्षाप्रकर्षलक्षणः, दानधर्मभेदाच्च फलभेदः, कारणानुरूपं कार्यनिष्पत्तेः, एवं समासतः सूत्रार्थो व्याख्यातः सम्प्रति विशेषेण विवृणोति-तत्रेत्यादि, तत्र तेषु विध्यादिचतुर्षु विधिविशेषस्तावदयं, नामशब्दो वाक्यालङ्कृतौ देशकालसम्पदिति व्यपगतस्थावरजङ्गमजन्तुको देशो दातुः प्रतिगृहीतुश्चेति देशसम्पत्, कालसम्पदपि न रात्रौ, दिवापि स्वार्थमुपक्लृप्तेऽशनादौ उचिते भोजनकाले परिवेषिकास्वितश्चेतश्च कडुच्छु (षो) कोखापटलकोदङ्किकाद्युपकरणव्यग्रकरासु सञ्चरन्तीषु पुरःपश्चात्कर्म्माभावात् कालसम्पत्, एवं वस्त्रपात्रादिदानमप्युचितकाल इति, श्रद्धा गुणवत्सु दानाभिलाषो दत्तमेभ्यो बहुफलं भवति, सत्कारोऽ
-