________________
સૂત્ર-૧
શ્રી તત્ત્વાર્થાધિગમસૂત્ર અધ્યાય-૭ करणव्यापाराद् द्रव्यभावभेदेन प्राणव्यपरोपणं हिंसा, प्रागभिहितसामान्यलक्षणयोगे सति सद्भूतनिह्नवासद्भूतोद्भावनविपरीतकटुकसावद्यादि मृषावचनं, परपरिगृहीतस्य स्वीकरणमाक्रान्त्या चौर्येण शास्त्रप्रतिषिद्धस्य वा स्तेयं, पूर्वलक्षणयोगात् मोहोदये सति चेतनाचेतनयोरासेवनमब्रह्म, सचित्ताचित्तमिश्रेषु द्रव्यादिषु शास्त्राननुमतेषु ममत्वं परिग्रहः, चशब्दः समुच्चयार्थः, एभ्यो हिंसादिभ्यः कायवाङ्मनोभिर्विरतिव्रतं, विरतिनिवृत्तिः, ननु चासूत्रितत्वात् कायादित्रयमनुपादेयं भाष्येण, नायं दोषः, आत्मना हि विरतिः साध्या, सा च करणमवश्यंतयाऽपेक्षते, तच्च कायाद्येव योग्यम्, अथवा प्रमत्तयोगादित्यत्र योगग्रहणं लक्षणसूत्रे सर्वव्रतविशेषणार्थं यत् तच्चेतसि सन्निवेश्य विवृतं भाष्यकारेण, आश्रवाध्यायवक्तव्यशेषमेव चाधिकृत्य सप्तमाध्यायमाह, व्रतशब्दः शिष्टसमाचारान्निवृत्तौ प्रवृत्तौ च प्रयुज्यते लोके, निर्वृत्तौ तावद्धिंसातो विरतिनिवृत्तिः व्रतं, यथा वृषलान्नं व्रतयति-परिहरति, वृषलान्नान्निवर्तत इति, ज्ञात्वा प्राणिनः प्राणातिपातादेनिवर्तन्ते केवलम्, अहिंसादिलक्षणं तु क्रियाकलापं नानुतिष्ठन्तीति तदनुष्ठानप्रवृत्त्यर्थश्च व्रतशब्दः, पयो व्रतयतीति यथा, पयोऽभ्यवहार एव प्रवर्त्तते, नान्यत्र, इत्येवं हिंसादिभ्यो निवृत्तः शास्त्रविहितक्रियानुष्ठान एव प्रवर्त्तते, अतो निवृत्तिप्रवृत्तिक्रियासाध्यं कर्मक्षपणमिति प्रतिपादयति, निवृत्तिप्रवृत्ती च शास्त्रचोदिते, तदनुष्ठानान्मोक्षावाप्तिरिति, ननु च भाष्यकारो निवृत्तिवचनमेव व्याचष्टे व्रतशब्दं, न प्रवृत्तिवचनमपीति तदेतत् कथं ?, अयमभिप्रायो भाष्यकृतः-अन्यतरोपादानेऽन्यतरप्रतीतिः सम्बन्धिशब्दत्वाद्भवत्येव, पितापुत्रादिवत्, यत उक्तं-"ज्ञानक्रियाभ्यां मोक्ष" इति, प्राधान्यात्तु निवृत्तिरेव साक्षात् प्राणातिपातादिभ्यो दर्शिता, तत्पूर्विका च प्रवृत्तिर्गम्यमाना, अन्यथा तु निवृत्तिनिष्फलैव स्यादिति। विरतिशब्दस्यार्थं निरूपयति-'विरतिर्नामे'त्यादिना विरमणं विरतिः, नामशब्दो