________________
18
શ્રી તત્ત્વાર્થાધિગમસૂત્ર અધ્યાય-૭ मिथ्योपदेशरहस्याभ्याख्यानकूटलेखक्रियान्यासापहारसाकार
मन्त्रभेदाः ॥७-२१॥ स्तनप्रयोगतदाहृतादानविरुद्धराज्यातिक्रममानोन्मानप्रतिरूपक
व्यवहाराः ॥७-२२॥ परविवाहकरणेत्वरपरिगृहीताऽपरिगृहीतागमनानङ्गक्रीडातीव्र
कामाभिनिवेशाः ॥७-२३॥ क्षेत्रवास्तुहिरण्यसुवर्णधनधान्यदासीदासकुप्यप्रमाणातिक्रमाः
॥७-२४॥ ऊर्ध्वाधस्तिर्यग्व्यतिक्रमक्षेत्रवृद्धिस्मृत्यन्तर्धानानि ॥७-२५॥ आनयनप्रेष्यप्रयोगशब्दरूपानुपातपुद्गलप्रक्षेपाः ॥७-२६॥ कन्दर्पकौकुच्यमौखर्यासमीक्षाधिकरणोपभोगाधिकत्वानि ॥७-२७॥ योगदुष्प्रणिधानानादरस्मृत्यनुपस्थापनानि ॥७-२८॥ अप्रत्युपेक्षिताप्रमार्जितोत्सर्गादाननिक्षेपसंस्तारोपक्रमणानादर
स्मृत्यनुपस्थापनानि ॥७-२९॥ सचित्तसम्बद्धसंमिश्राभिषवदुष्पक्वाहाराः ॥७-३०॥ सचित्तनिक्षेपपिधानपरव्यपदेशमात्सर्यकालातिक्रमाः ॥७-३१॥ जीवितमरणाशंसामित्रानुरागसुखानुबन्धनिदानकरणानि ॥७-३२॥ अनुग्रहार्थं स्वस्यातिसर्गो दानम् ॥७-३३॥ विधिद्रव्यदातृपात्रविशेषात्तद्विशेषः ॥७-३४॥