________________
શ્રી તત્વાર્થાધિગમસૂત્ર અધ્યાય-૭
17
સાતમો અધ્યાય
हिंसानृतस्तेयाब्रह्मपरिग्रहेभ्यो विरतिव्रतम् ॥७-१॥ देशसर्वतोऽणुमहती ॥७-२॥ तत्स्थैर्यार्थ भावनाः पञ्च पञ्च ॥७-३॥ हिंसादिष्विहामुत्र चापायावद्यदर्शनम् ॥७-४॥ दुःखमेव वा ॥७-५॥ मैत्रीप्रमोदकारुण्यमाध्यस्थ्यानि सत्त्वगुणाधिकक्लिश्यमाना
विनेयेषु ॥७-६॥ जगत्कायस्वभावौ च संवेगवैराग्यार्थम् ॥७-७॥ प्रमत्तयोगात् प्राणव्यपरोपणं हिंसा ॥७-८॥ असदभिधानमनृतम् ॥७-९॥ अदत्तादानं स्तेयम् ॥७-१०॥ मैथुनमब्रह्म ॥७-११॥ मूर्छा परिग्रहः ॥७-१२॥ निःशल्यो व्रती ॥७-१३॥ अगार्यनगारश्च ॥७-१४॥ अणुव्रतोऽगारी ॥७-१५॥ दिग्देशानर्थदण्डविरतिसामायिकपौषधोपवासोपभोगपरिभोग
परिमाणातिथिसंविभागवतसम्पन्नश्च ॥७-१६॥ मारणान्तिकी संलेखनां जोषिता ॥७-१७॥ शङ्काकाङ्क्षाविचिकित्साऽन्यदृष्टिप्रशंसासंस्तवाः सम्यग्दृष्टे
रतिचाराः ॥७-१८॥ व्रतशीलेषु पञ्च पञ्च यथाक्रमम् ॥७-१९॥ बन्धवधच्छविच्छेदातिभारारोपणानपाननिरोधाः ॥७-२०॥