________________
૧૮૬
શ્રી તત્ત્વાર્થાધિગમસૂત્ર અધ્યાય-૭
સૂત્ર-૧૮
विकल्पाः, एकत्र द्वादश, एवमजीवादिष्वपि षट्सु प्रतिपदं द्वादशैव विकल्पाः, एकत्र द्वादश सप्तगुणाश्चतुरशीतिर्विकल्पा नास्तिकानामिति ।
"
अज्ञानिकानामिति, कुत्सितं ज्ञानमज्ञानं तदेषामस्तीत्यज्ञानिकाः, अथवा अज्ञानेन चरन्ति तत्प्रयोजना वा, आज्ञानिका इति पाठः, असञ्चिन्त्यकृतबन्धवैफल्यादिलक्षणाः, सप्तषष्टिभेदाः, तत्र जीवादीन् नव पदार्थान् पूर्ववद् व्यवस्थाप्य पर्यन्ते चोत्पत्तिमुपन्यस्याधः सप्त सदसदादय उपन्यसनीयाः, सत्त्व १ मसत्त्वं २ सदसत्त्वं ३ अवाच्यत्वं ४ सदवाच्यत्वं ५ असदवाच्यत्वं ६ सदसदवाच्यत्व ७ मिति चैकैकस्य जीवादेः सप्त विकल्पाः, त एते नव सप्तकास्त्रिषष्टिः, उत्पत्तेस्तु चत्वार एवाद्या विकल्पाः, तद्यथा - सत्त्वमसत्त्वं सदसत्त्वमवाच्यत्वं चेति, त्रिषष्टिमध्ये क्षिप्ताः सप्तषष्टिर्भवति को जानाति जीवः सन्नित्येको विकल्पः एवमसदादयोऽपि वाच्याः, उत्पत्तिरपि किं सतोऽसतः सदसतोऽवाच्यस्येति वा को जानात्येतत् ?, न कश्चिदपीत्यभिप्रायः । वैनयिकानां चेति चशब्दः समुच्चये, विनयेन चरन्ति विनयो वा प्रयोजनमेषामिति वैनयिकास्ते चामीष्वष्टासु स्थानेष्वनवधृतलिङ्गाचारशास्त्रविनयप्रतिपत्तिलक्षणा विनयप्रधानाः सपर्यां विदधति कायेन वाचा मनसा दानेन च, एभिश्चतुर्भिः प्रकारैः सुरनृपतियतिज्ञातिस्थविराधममातृपितृषु, एवं चाष्टकाश्चत्वारो द्वात्रिंशद्विकल्पा भवन्ति, एवमभिगृहीतमिथ्यादृष्टीनां सर्वसङ्ख्यया त्रीणि शतानि त्रिषष्ट्यधिकानि, अनभिगृहीतास्तु भोगसुखपराणां, आस्तां निःश्रेयससुखं, इदमेव पर्याप्तं यत् प्रकृष्टैश्वर्य्याभिजनादिषु नीरोगतादियुक्तं जन्मेति, सर्वदेवतासु पाखण्डिषु च तुल्यतामौदासीन्यं वा भावयतीति एतत्सम्बन्धेनाहप्रशंसासंस्तवौ सम्यग्दृष्टेरतीचारौ इति एषामुक्तलक्षणानां क्रियाऽ - क्रियावादिनामज्ञानिकानां वैनयिकानां च प्रशंसा स्तुतिरभिष्टवः पुण्यभाज एते सुलब्धमेभिर्जन्म सत्पथस्थाः सन्मार्गदर्शननिपुणा इत्यादि, संस्तवः