________________
સૂત્ર-૧૮ શ્રી તત્ત્વાર્થાધિગમસૂત્ર અધ્યાય-૭
૧૮૭ तैः सहैकत्र संवासात् परिचयः, परस्परालापादिजनितः, तथाहि-एकत्र वासेन तत्प्रक्रियाश्रवणात् तत्प्रक्रियादर्शनाच्चासंहार्यमतेरपि दृष्टिभेदः श्रूयते, किमुत संहार्यमतेः? अत एव भगवद्भिः पार्श्वस्थादियथाच्छन्दकैरपि सार्द्ध निषिद्धमेकत्र वसनमेकरात्रावपि सम्यग्दृष्टेरुत्सर्गतः, तस्मादतीचारावैतौ मलीमसताहेतू तत्प्रशंसासंस्तवौ, सम्यग्दृष्टेभ्रंशहेतू वा ।
प्रसिद्धार्थवशादुपजातसन्देहः कश्चिदत्र आह-प्रशंसासंस्तवयोः कः प्रतिविशेष ? इति मन्यते-'शंसु स्तुतौ' (पा० धा०७२८), प्रशंसनं प्रशंसा, स्तुतिः ‘ष्टुञ् स्तुतौ' (पा० धा०१०४३) संस्तवनं संस्तवः, सम्यक् स्तुतिरेव, अतस्तुल्यार्थत्वात् प्रश्नयति-कः प्रतिविशेष इति ?, अत्रोच्यते, ज्ञानेत्यादि ज्ञानं-आगमः क्रियावादिप्रभृतीनां प्रशंसा निरवद्यः प्रकृष्ट आगमः प्रमाणान्तरसंवादी न चाभिभवितुमपरैः शक्य इत्येवमुद्भावनं, प्रत्यक्षमेव तेषां परोक्षं वा, भावत इति, तदाक्षिसेन चित्तेन भक्तिप्रद्धेन तदीयगुणैर्नम्रतां नीतेनेति, तेषामेव दृष्टिदर्शनं स्वागमोक्तपदार्थश्रद्धानं तस्य प्रशंसा समक्षासमक्षं, प्रकृष्टमेषां सम्यग्दर्शनं सन्मार्गानुकूलमित्युद्भावभावनगुणा दाक्षिण्यसाङ्गत्यप्रियप्रथमाभिभाषितालडहतादयस्तेषामेषु प्रकर्षो दृश्यते गुणानामित्युद्भावनं भावतः प्रशंसा, अथवा ज्ञानदर्शने एव गुणौ तयोः प्रकर्षस्तदुद्भावनं-प्रकाशनं भावतः प्रशंसा प्रत्यक्षतः परोक्षतो वा, संस्तवस्त्वित्यादि, तुशब्दः संस्तवं विशिनष्टि, संस्तव इह संवासजनितः परिचयः संवसनभोजनालापादिलक्षणो, न स्तुतिः, प्रशंसयोक्तत्वात्, परिचयस्यात्र प्राधान्यं, स्तुतिस्तु प्रासंगिकी, तेषां च मध्ये संवसतः संस्तवो भवति । [लोके च प्रतीतः संपूर्वः स्तौतिः परिचये 'असंस्तुतेषु प्रसभं भयेष्वि'त्यादिषु, एकोऽपि हि शब्दो भिन्नार्थो गम्यते प्रयोक्तृवशाद् गोशब्दवत् ।] अतः संस्तवशब्दस्यार्थं परिचयमेव भाष्येण स्पष्टयति-सोपधमित्यादिना, उपधा छद्म माया, सहोपधया सोपधं, निरुपधं-निश्छद्म निर्मायं, परिचये