________________
૧૮૫
सूत्र-१८
શ્રી તત્ત્વાથધિગમસૂત્ર અધ્યાય-૭ वदन्ति ये तच्छीलाश्च ते क्रियावादिनः आत्मास्तित्वादिप्रतिपत्तिलक्षणाश्च, ते चाशीत्यधिकशतसङ्ख्याः , समभिगम्याश्चामुनोपायेन-जीवाजीवास्रवबन्धसंवरनिर्जरापुण्यापुण्यमोक्षाख्यान् नव पदार्थान् विरचय्य परिपाट्या जीवपदार्थस्याधः स्वपरभेदावुपन्यसनीयौ, तयोरधो नित्या-नित्यभेदौ, तयोरप्यधः कालेश्वरात्मनियतिस्वभावभेदाः पञ्च न्यसनीयाः, ततो विकल्पानुत्पादयति-अस्ति जीवः स्वतो नित्यः कालत इत्येको विकल्पः, विकल्पार्थश्चायं-विद्यते खल्वयमात्मा चेतनरूपेण नित्यश्च कालवादिनः १, उक्तेनैवाभिलापेन द्वितीयो विकल्प ईश्वरकारणिनः २, तृतीयविकल्प आत्मवादिनः पुरुषमेवेदमित्यादि ३, नियतवादिनश्चतुर्थो विकल्पः ४, पञ्चमविकल्पः स्वभाववादिनः ५, एवं स्वत इत्यनेन लब्धाः पञ्च विकल्पाः, परत इत्यनेनापि पञ्चैव लभ्यन्ते, नित्यत्वापरित्यागेन चैते दश विकल्पाः १०, एवमनित्यत्वेनापि दशैव १०, एकत्रविंशतिः जीवपदार्थेन लब्धाः, अजीवादिष्वप्यष्टास्वेवमेव प्रतिपदं विंशतिर्विकल्पानां, अतो विंशतिर्नवगुणाः शतमशीत्युत्तरं क्रियावादिनामिति । __ अक्रियावादिनां स्वरूपकथनं नामत एव क्रियते, तद्युक्तानामित्यनुवर्तते, आत्मनास्तित्वादिप्रतिपत्तिलक्षणा भवन्त्यक्रियावादिनः, न हि कस्यचिदवस्थितस्य पदार्थस्य क्रिया समस्ति, “भूतिर्ये(8)षां क्रिया सैव, कारणं सैव चोच्यत" इति, एषां चतुरशीतिर्भेदाः, तेषां पुण्यापुण्यवर्जितपदार्थसप्तकन्यासः, तथैव जीवस्याधः स्वपरविकल्पभेदद्वयोपन्यासः, असत्त्वादात्मनो नित्यानित्यभेदौ तु न स्तः, कालादीनां तु पञ्चानां षष्ठी यदृच्छा न्यस्यते, पश्चाद्विकल्पाभिलापः-नास्ति जीवः स्वतः कालत इत्येको विकल्पः, एवमीश्वरादिभिरपि यदृच्छावसानैः, सर्वे षड् विकल्पाः, तथा नास्ति जीवः परतः कालत इति षडेव १. 'भूतिः या एषां क्रिया सैव कारणं सैव चोच्यते ।