________________
૧૮૪
શ્રી તત્ત્વાર્થાધિગમસૂત્ર અધ્યાય-૭ સૂત્ર-૧૮ देरायत्यां फलसम्पद् भवित्री, अथ च क्लेशमात्रमेवेदं निर्जराफलविकलमिति, नामशब्दो वाक्यालङ्कारार्थः, इदमप्यस्ति इत्यादि, उभयथेह क्रिया-फलवती निष्फला च, कृषीवलानां कर्षणादिक्रिया कदाचित् फलवती जातुचित् निष्फलेति, अत इदमस्तीदमप्यस्ति एवं परलोकक्रियायामप्यस्तितामतिविप्लुतिरिति ।
ननु शङ्काविचिकित्सयोः कः प्रतिविशेषः ?, उच्यते, शङ्का सकलासकलपदार्थभाक्त्वेन द्रव्यगुणविषया लक्ष्यते, इयं तु क्रियाविषयैव विचिकित्सा, तामेव विवृणोति मतिविप्लुतिरिति, मतिर्मिथ्यात्वपुद्गलानुविद्धा विप्लवते-भ्रमति नावतिष्ठते च, ते मिथ्यादर्शनभेदा विशेषमाश्रित्य सम्यक्त्वातिचाराः अभिधीयन्ते, आगमे तु विचिकित्सा विद्वज्जुगुप्सा वेत्यभिहितं, विद्वांसः-साधवस्तेषां जुगुप्सा-निन्दा अस्नानात् प्रस्वेददुर्गन्धितां निन्दति, को दोषः स्याद्यदि प्रासुकेन वारिणा प्रक्षालनं कुर्वीरनिति ।
अन्यदृष्टिरित्यादि अन्यशब्दः प्रतियोग्यपेक्षः, अन्या चासौ दृष्टिरन्यदर्शनमन्यथापदार्थप्रणयनात्, तथाह-अर्हच्छासनव्यतिरिक्ता दृष्टिरन्यदृष्टिरसर्वज्ञप्रणीतवचनादिभिरिति, सा च द्विविधा-द्विप्रकारा, तत्राभिमुखं गृहीताऽभिगृहीता दृष्टिरिदमेव तत्त्वमिति बुद्धवचनं साङ्ख्यकणादादिवचनं वा, अनभिगृहीता चेति, चः समुच्चये, नैकाभिमुख्येन गृहीता सर्वप्रवचनेष्वेव साधुदृष्टिः, सर्वमेव युक्त्युपपन्नमयुक्तिकं वा समतया मन्यते मौढ्यात् ।
तत्र तद्युक्तानामित्यादिना अभिगृहीतमिथ्यादृष्टेरियत्तां निरूपयति, तयाऽभिगृहीतमिथ्यादृष्ट्या युक्तास्तद्युक्ता मिथ्यादर्शनभाजो, मिथ्यादर्शनं ह्यनेकप्रकारमुपजायते मोहवैचित्र्याद् नयानामानन्त्याद् अतः स्थूलतरकतिपयभेदोपदर्शनं क्रियते, तेषां तद्युक्तानां क्रियावादिनामिति क्रिया कर्तुरधीना न कर्ता विना क्रियायाः सम्भवः, तामात्मसमवायिनी क्रियां