________________
સૂત્ર-૧૮ શ્રી તત્ત્વાર્થાધિગમસૂત્ર અધ્યાય-૭
૧૮૩ तेन च गृह्यन्ते, अत आगमपरिच्छेद्येषु प्रज्ञापनीयेष्वर्थेषु यः संशयो भवति, एवं स्यादसङ्ख्येयप्रदेश आत्मा नैव स्यादिति वा, सेयमेवंविधा शङ्का, तथा चागमः-"संसयकरणं संका" तथा संशयो मिथ्यात्वमेव, यथाह
"पयमक्खरंपि एक्कंपि जो न रोएइ सुत्तनिद्दिटुं । सेसं रोयंतोऽवि हु मिच्छट्ठिी मुणेअव्वो ॥१॥" काङ्क्षास्वरूपमभिधातुकाम आह-‘ऐहलौकिकपारलौकिकेषु' इत्यादि इहलोके भवा ऐहलौकिकाः शब्दादयो विषयाः, सुगतेन हि भिक्षूणामक्लेशको धर्म उपदिष्टः, असावपि घटमान एव, तथा परिव्राड्भौतब्राह्मणानामपि, तथा परलोके भवाः पारलौकिकाः स्वर्गमानुषजन्मप्रभवाः शब्दादयो विषयास्तेष्वभिलाषस्तद्विषयाऽऽशंसा प्रीतिरभिलाषः काङ्क्षत्यनर्थान्तरं, दर्शनेषु वा, तथा चागमः-"कंखा अण्णण्णदंसणग्गाहो" प्रस्तुतोऽतीचारः तत्शब्देन तस्य परामर्शः, सोऽतीचारो मलीमसता ध्यामलता, कस्य ?, सम्यग्दृष्टेरित्याह, न निर्मूलमेव सम्यक्त्वं भवति, मलिनता तु तस्य जायत इति, कस्मात् पुनः काङ्क्षा अतीचार इति प्रश्नेनोपक्रमते-कुत इति, एवं मन्येतजिनवचनं श्रद्धत्त एव, अश्रद्दधतश्च मिथ्यादर्शनं, आचार्यस्त्वाहकाङ्किता इत्यादि यस्मादन्यशासनतत्त्वाभिलाषी काङ्क्षिता, न विचारिता गुणदोषा येनासावविचारितगुणदोषो यतः सांसारिकसुखमल्पं विपाककटुकं तदप्यभिलषति, एतच्च भगवद्भिः प्रतिषिद्धं, प्रतिषिद्धानुष्ठानाच्च भावतो दूषयति सम्यक्त्वं, अतः समयमतिक्रामतीति समय:-सिद्धान्तः अतिक्रमणमुल्लङ्घनं, कः पुनरसौ समयः ‘णो इहलोगट्ठयाए' इत्यादि, केवलं कर्मनिर्जरणायैवेति । _ 'विचिकित्सा नामे'त्यादि, मतिविभ्रमो विचिकित्सा-युक्त्यागमोपपन्नेऽप्यर्थे भ्राम्यति मतिः, यथाऽस्य महतस्तपःक्लेशस्य लोचमौण्ड्या