________________
૧૮૨
શ્રી તત્ત્વાર્થાધિગમસૂત્ર અધ્યાય-૭ - સૂત્ર-૧૮ વિચિકિત્સા એટલે આ પણ છે, આ પણ છે એ પ્રમાણે મતિની मस्थिरता.
અન્યદૃષ્ટિ એટલે જૈનશાસનથી ભિન્ન(=અન્ય)દષ્ટિ. તે અભિગૃહીત અને અનભિગૃહીત એમ બે પ્રકારે છે. અભિગૃહીતદષ્ટિથી યુક્ત એવા ક્રિયાવાદીઓની, અક્રિયાવાદીઓની, અજ્ઞાનિકોની અને વૈનાયિકોની પ્રશંસા અને સંસ્તવ સમ્યગ્દષ્ટિના અતિચાર છે.
मी (=पूछे) छे, प्रशंस-संस्तवमi शो मे छ ? અહીં કહેવાય છે- જ્ઞાન-દર્શનગુણોના પ્રકર્ષનું ભાવથી પ્રકાશન કરવું તે પ્રશંસા છે. માયાથી કે માયા વિના સત્ય-અસત્ય ગુણોનું કથન એ संस्तव छ. (७-१८)
टीका- कृतद्वन्द्वाः शङ्कादयो प्रथमविभक्त्या निर्दिष्टाः, सम्यग्दृष्टेरिति सम्यग्दर्शनभाजोऽतीचारा भवन्ति, मोहनीयकर्मणो वैचित्र्यादात्मनः परिणतिविशेषाः, तानि द्वन्द्वपदानि पञ्चापि वृत्त्या दर्शयति-शङ्केत्यादिकया, अतिचारो व्यतिक्रमः स्खलनमित्येकोऽर्थः, अधिगतेत्यादि, अधिगतंसुपरिज्ञातं जीवाजीवादि तत्त्वं यस्य तस्याप्येवंविधस्य भगवत इति श्रीवर्धमानस्य शासनं प्रवचनमभिप्रपन्नस्य-अभिमुखं भावतः प्रतिपन्नस्येतियावद् असंहार्यमतेरिति संहार्या-आक्षेप्या परकीयागमप्रक्रियाभिरसमञ्जसाभिर्बुद्धिर्यस्य स संहार्यमतिः न संहार्यमतिर्भगवदर्हत्प्रणीततत्त्वश्रद्धा या तस्य सम्यग्दृष्टेरर्हत्प्रोक्तेषु जीवादिष्वर्थेषु, यथाऽऽत्मा लोकाकाशतुल्यप्रदेशः, गतिस्थितिहेतू जीवपुद्गलानां धर्माधर्मावपेक्षाकारणमित्येवमादिरनेकः पदार्थोऽत्यन्तः सूक्ष्मस्तेषु अत्यन्तलिङ्गागमगम्येषु, यतः परमाणवः सूक्ष्माश्चातीन्द्रियाश्च तथापि लिङ्गेन-कार्येणागमेन वाऽवगम्यन्ते केवलागमग्राह्येष्विति केवलं एकमसहायं मत्यादिविनिर्मुक्तं आत्यन्तिकज्ञानावरणक्षयप्रभवं आत्मस्वरूपं सकलज्ञेयग्राहि ज्ञानं तेन गृह्यन्ते, आगमो द्वादशाङ्गं गणिपिटकं