________________
શ્રી તત્ત્વાથધિગમસૂત્ર અધ્યાય-૭ સૂત્ર-૧૭ "चत्तारि विचित्ताई विगईणिज्जूहिआई चत्तारि । एगंतरमायाम अविगिट्ठविगिट्ठ कोडिक्कं ॥१॥" द्वादश वर्षाण्युत्कर्षतः संलेखनाकालः, तदनु स्वशक्त्यपेक्षो मासार्द्धमासपरिमाणः संलेखनाकालोऽवसेयः, संलेखना चावश्यं समाधिमरणाय पर्यन्ते विधेयाऽनगारागारिभ्यां, जोषितेति कर्त्तरि ताच्छीलिकस्तृन्, मारणान्तिकी संलेखनां जोषिता सेविता कर्ता इति, एनमेवार्थं भाष्येण स्पष्टयति कालसंहननेत्यादिना कालदोषाढुष्षमायां दुःशक्यं बहूनि वर्षाणि साधुगृहिधर्मानुष्ठानं कर्तुं, संहननं वज्रर्षभनाराचादि षोढा संहननस्य दौर्बल्यं दुर्बलता, हीयमानमित्यर्थः, उपसर्गास्तु दिव्यमानुषतिर्यकृतात्मसमुत्थाः, दोषशब्दः प्रत्येकमभिसम्बध्यते, कालदोषात् संहननदौर्बल्यदोषादुपसर्गदोषाद्वा, धर्मो दशलक्षणक: तद्विषयाण्यवश्यंकर्त्तव्यान्यावश्यकानि साधोः प्रत्युपेक्षणादीनि अगारिणोऽपि चैत्यवन्दनवैयावृत्त्यपौषधप्रतिपत्त्यादीनि तेषां परिहाणिःअवसादः कालादिदोषात् तामवगम्य कालादिदोषमन्तरेण वा मरणम् - अभितः प्रत्यासन्नमवबुद्धयेदं च कर्त्तव्यमित्याह-अवमौदर्येत्यादि अवमं न्यूनमुदरमवमोदरं तद्भावावमौदर्य-अविकृतवदनकुक्कुड्यण्डकमानेन द्वात्रिंशत्कवलाहारः पुरुषः स्त्री वा, ततः किञ्चिदूनतादिभेदेनावमौदर्यमनेकविधमागमेऽभिहितं, चतुर्थादिभक्तभावना पूर्वोक्ता, आदिग्रहणादर्धमासक्षपणादिपरिग्रहः, एभिस्तपोविशेषैरात्मानं संलिख्य-तनूकृत्य विरूक्ष्य-रुधिरमेदोमांसाद्यपचयं कृत्वा कषायांश्चापास्य-प्रोज्झ्य च गृहिव्रतत्वमभ्युपगम्य संयमं सर्वसावद्यविरतिलक्षणमुत्तमैर्महाव्रतैः सम्पन्नः चतुर्विधमशनादिकमाहारं प्रत्याख्याय त्रिविधं वा यथासमाधि यावज्जीवमिति विशिष्टावधिकं भावनानुप्रेक्षापरः भावनाः पूर्वोक्ताः अनुप्रेक्षास्तु वक्ष्यमाणा नवमे तत्पर इति तत्र निहितचेतास्तदध्यवसानः स्मृतिबहुलः सर्वं स्मरति यत् प्रतिज्ञातं महाव्रतादि, मुषितस्मृतेर्न