________________
સૂત્ર-૧૬ શ્રી તત્ત્વાથધિગમસૂત્ર અધ્યાય-૭
૧૬૩ वसति यस्तच्छीलश्च स चतुर्थाद्युपवासी, आदिग्रहणात् पूर्वगणनयैव षष्ठाष्टमादिसमस्ततपोविकल्पग्रहणं, स्नानमुदकेन अनुलेपनं चन्दनादिना गन्धा वासादयः मालार्ह माल्यं पुष्पप्रकरः, अलङ्कारो वस्त्रकेशकटकादि व्यपगताः स्नानादयो यस्येति, न्यस्तो निक्षिप्तः सर्वसावद्ययोगो येन, सर्वशब्दः पूर्ववत्, कुशास्तृणजातिरशुषिराः तत्कृतः संस्तारः, संस्तीर्यतेऽसाविति संस्तारः फलकमप्यशुषिरं चम्पकादिपट्टखण्डं, आदिग्रहणात् द्विदलवस्त्रकम्बलीपरिग्रहः अन्यतममिति उक्तानां मध्ये यथालाभमास्तीर्य विरचय्य प्रतनुनिद्रेण अनुष्ठेयः, अथवा स्वशक्त्यपेक्षया स्थानादिविधिनाऽनुष्टेयस्तदाह-स्थानमूर्ध्वलक्षणं कायोत्सर्गाख्यं वीराणां संहननयुक्तानामासनं जान्वधोभागतुल्यमञ्चिकादिनिविष्टस्यापनीताधोमञ्चिकस्य तथाऽवस्थानं वीरासनमुच्यते, निषद्यासनं हि समस्फिग्निवेशनं पर्यङ्कबन्धादिः, वाशब्दो विकल्पार्थः, स्थानादि वा शयनं वा अन्यतममिति यदेवाभ्यस्तं आस्थायेति परिगृह्य धर्मस्तु श्रुतचरणभेदाद् द्विधा, तत्र श्रुतधर्मो वाचनाप्रच्छनाऽनुप्रेक्षास्वाध्यायधर्मोपदेशलक्षणः चरणधर्मो महाव्रताणुव्रतोत्तरगुणभेदतः तद्विषयं जागरणं जागरिका, नत्वार्तरौद्रविकथाद्याश्रिता जागरेति, एवमयं पौषधोपवासः सम्यग् गृहिणाऽनुष्ठेय इति ।
उपभोगपरिभोगव्रतं नामेत्यादि उपभोगपरिभोगशब्दार्थों व्याख्यातौ, तच्च द्विविधं व्रतं भोजनकर्मविषयत्वात्, तत्राशनाद् मांसानन्तकायादेनिवर्तते पानतो मद्यसुरामांसरसकादेः खाद्यान बहुबीजसत्त्वोदुम्बरफलादेः स्वाद्यात् माक्षिकादिमधुप्रभृतेः एवं यथासम्भवमन्यदपि सचित्तमाहारजातं परिहरति प्रतिदिवसं, कर्मतः पञ्चदश कर्मादानानि अङ्गारकरणादीनि ज्ञानावरणादिकर्मणां हेतुत्वात् आदानात् कर्मादानानीत्युच्यन्ते, तानि चाङ्गारवनशकटभाटकस्फोटनदन्तलाक्षारसविषकेशवाणिज्ययन्त्रपीडननिर्लाञ्छनदवदानसरोहृदादिपरिशोषणासतीपोषणकर्माणि, प्रदर्शनं चैतद् बहुसावद्यानां कर्मणां, न परिगणनमित्यागमार्थः, ननु च भाष्यकृता न