________________
શ્રી તત્ત્વાર્થાધિગમસૂત્ર અધ્યાય-૭
સૂત્ર-૧૬
कर्म्मादानग्रहणमकारि साक्षात्, सत्यं, आदिग्रहणाद् व्याख्येयानि, प्रवचने तथोपदिष्टत्वात्, गन्धमाल्यादीनामित्यादिशब्दात् पटवासधूपप्रकर्षताम्बूलग्रहणं, समासतो यानि बहुसावद्यानि तानि यावज्जीवं वर्जनीयानि, अल्पसावद्यानां तु कर्म्मणां परिमाणं कार्यं, शेषाणि प्रत्याख्येयानि ।
૧૬૪
अतिथिसंविभागो नामेत्यादि अतिथिर्भोजनार्थं भोजनकालोपस्थायी स्वार्थं निर्वर्त्तिताहारस्य गृहिव्रतिनः साधुरेवातिथिः तस्य संविभागो - ऽतिथिसंविभागः, संविभागग्रहणात् पश्चात्कर्म्मादिदोषपरिहारः, अत्र च पौषधोपवासपारणकाले नियमः, 'अदत्त्वा साधुभ्यो न स्वयं पारणीय'मिति, अन्यदा तु दत्त्वा पारयति पारयित्वा वा ददाति इत्यनियमः, तच्च देयं देशकालाद्यपेक्षं सर्वमेवोद्गमादिविशुद्धं मोक्षफलमभिलषता संयतासंयतेन, कदाचित् किञ्चिदाधाकर्म्माद्यपि देशकालापेक्षं स्वर्गादिफलमेव भवतीति विजानता देयमेव, उत्सर्गापवादप्रपञ्चस्वभावत्वाद्भगवदर्हत्प्रणीतप्रवचनस्येति, नामशब्दः पूर्ववत्, न्यायागतानामिति न्यायो द्विजक्षत्रियविट्शूद्राणां स्ववृत्त्यनुष्ठानं, स्ववृत्तिश्च प्रसिद्धैव प्रायो लोकरूढ्या, तेन तादृशेन न्यायेन आगतानां प्राप्तानां कल्पनीयानामिति उद्गमादिदोषवर्जितानामशनीयपानीयखाद्यस्वाद्यवस्त्रपात्रप्रतिश्रयसंस्तारभेषजादीनां द्रव्याणामिति पुद्गलविशेषाणां देशो नानाव्रीहिकोद्रवकङ्गगोधूमादिनिष्पत्तिकः कालः सुभिक्षदुर्भिक्षादिः श्रद्धा विशुद्धचित्तपरिणाम: पात्राद्यपेक्षः सत्कारोऽभ्युत्थानासनदानवन्दनानुव्रजनादिः क्रमः परिपाटी देशकालापेक्षो यः पाको निर्वृत्तः स्वगेहे तस्य पेयादिक्रमेण दानं, यो वा यत्र देशे काले वा क्रमः प्रसिद्धः तैर्देशादिभिरुपेतं, उपेतशब्दः प्रत्येकमभिसम्बध्यते, परयेति प्रकृष्टया आत्मनोऽनुग्रहबुद्ध्या ममायमनुग्रहो महाव्रतयुक्तैः साधुभिः क्रियते यदशनीयाद्यादीयत इति, अतः संयता मूलोत्तरगुणसम्पन्नास्तेभ्यः संयतात्मभ्यो दानमिति ॥७-१६॥