________________
૧૬૨ श्री तत्वाषिरामसूत्र अध्याय-७
સૂત્ર-૧૬ सामायिकं नामेत्यादि सामायिकमिति समो-रागद्वेषविमुक्तः आयोलाभः प्राप्तिः, समस्यायः समायः तत्र भवं सामायिकं, समाय एव वा सामायिकं, नामशब्दोऽलङ्कारार्थः, अभिगृह्य कालमिति कालं नियम्य यावच्चैत्यानि पर्युपासे साधून् वा अन्यद्वा किञ्चिदुपलक्षणमास्थाय कालस्य गोदोहिकादि स्थिरचित्तवृत्तिः, गृहपौषधशालादिषु निर्व्यापारः सन् सर्वत्र सामायिकमातिष्ठते, अमुना विधानेन-करोमि भदन्त ! सामायिकं द्विविधं त्रिविधेनेति, प्रतिपद्य चैवं ततश्चैत्यादि पर्युपास्ते, निक्षिप्तसावधयोगः अवद्यं गर्हितं पापं सहावद्येन सावद्यः योगो व्यापारः कायिकादिस्तस्य सावधव्यापारस्य निक्षेपः-परित्यागः प्रोज्झनं, न करोमि न कारयामि मनोवाकायैरिति भावस्तद्विशेषणं सावधमिति ॥ सर्वशब्दः प्रकृतविकल्पापेक्षया, अतः सर्वसावद्ययोग इति न करोमि न कारयामि तस्य विकल्पस्य प्रत्याख्येयो यः सावद्ययोगः स सर्व इत्यनेन विशेष्यते, न पुनः सामान्येन सर्वसावद्ययोगनिक्षेपणमिति, असम्भवात् तस्यागारिण इति ।
'पौषधोपवासो नामे'त्यादिना पौषधस्वरूपं निरूपयति, रूढ्या पौषधशब्दः पर्वसु वर्त्तते, पर्वाणि च अष्टम्यादितिथयः, पूरणात् पर्व, धर्मोपचयहेतुत्वात्, तत्र पौषधे पर्वण्युपवासः त्रिविधस्य चतुर्विधस्य वाऽऽहारस्य छेदः, नामशब्दो वाक्यालङ्कारार्थः, अनर्थान्तरमित्येकार्थता, सोऽष्टमीमित्यादि, स पौषधोपवासः उभयपक्षयोरष्टम्यादितिथिमभिगृह्य निश्चित्य बुद्ध्याऽन्यतमां वेति प्रतिपदादितिथिम्, अनेन चान्यासु तिथिषु अनियमं दर्शयति, अष्टम्यादिषु नियमः, चतुर्थाधुपवासिनेति, कर्तृलक्षणा तृतीया, मुमुक्षूणां सकृद्भोजनं मध्यमजनस्य भक्तद्वयं, तत्र मध्यमां प्रतिपत्तिमाश्रित्य चतुर्थादितपोगणना, अतीतेऽहनि भुक्त्वा प्रत्याख्यानमित्येको भोजनकालः, द्वितीयेऽहनि भक्तद्वयच्छेदः, तृतीयेऽहनि भुक्तिकाले भुङ्क्त इति चतुर्थमुच्यते, एक उपवासः चतुर्थं, तदाधुप