________________
સૂત્ર-૧૬
શ્રી તત્ત્વાર્થાધિગમસૂત્ર અધ્યાય-૭
૧૬૧ इत्यादि अपवरको विशिष्ट एव गृहैकदेशः, तत्रैवं नियमः प्रवेशादिकालेआप्रभातसमयादर्वाक् न मया निर्गन्तव्यममुतो देशादन्यत्र अनाभोगादिभ्य इति, एवं कुड्यमर्यादावच्छिन्नाद्गेहात् तथा वृत्तिपरिक्षेपावच्छिन्नात् क्षेत्रात् ग्रामाद्वा सीमावच्छेदाच्च, आदिग्रहणं नगरखेटकर्बटविषयजनखण्डपदार्थं, एतत् प्रदर्शनार्थमात्रं, एवं च यत्र देशे यावन्तं कालमिच्छति स्थातुं विहर्तुं वा तत्र विवक्षितदेशात् परतो निवृत्तिरित्येवम्, अस्यैवार्थस्य प्रतिपादनार्थमिदमाह-यथाशक्तीत्यादि, यथाशक्तीति कारणापेक्षया यावति देशे प्रविचारो गमनादिक्रिया समस्ति गृहिणस्तदर्थः परिमाणाभिग्रहः प्रविचारनियमार्थ इतियावत् । ततश्च तत्परतः प्रविचारजनितसूक्ष्मस्थूलभूतग्रामोपमर्दपरिहारः कृतो भवतीति दर्शयति ततः परतश्चेत्यादिना, प्राग्व्याख्यातार्थमेतद्भाष्यमिति ।
अनर्थदण्डो नामेत्यादि, अर्थः-प्रयोजनं गृहस्थस्य क्षेत्रवास्तुधनशरीरपरिजनादिविषयस्तदर्थ आरम्भो-भूतोपमर्दोऽर्थदण्डः, दण्डो निग्रहो यातना विनाशनमिति पर्यायाः, अर्थेन-प्रयोजनेन दण्डोऽर्थदण्डः स चैष भूतविषय उपमर्दलक्षणो दण्डः क्षेत्रादिप्रयोजनमपेक्षमाणोऽर्थदण्ड उच्यते, तद्विपरीतोऽनर्थदण्डः प्रयोजननिरपेक्षः अनर्थोऽप्रयोजनमनुपयोगो निष्कारणता, विनैव कारणेन भूतानि दण्डयति यथा कुठारेण प्रहृष्टः तरुस्कन्धशाखादिषु प्रहरति कृकलासपिपीलिकादि व्यापादयति, नामशब्दः पूर्ववत्, अनर्थदण्डस्वरूपनिरूपणायाह-उपभोगेत्यादि, उपभुज्यत इत्युपभोगः, उपशब्दः सकृदर्थे, संकृद्रोगः उपभोगः पुष्पाहारादि, अथवा आन्तरभोगः उपभोगः आहारादिः, अत्रान्तर्वचनः उपशब्दः, परिभुज्यत इति परिभोगः, परिशब्दोऽभ्यावृत्तौ वर्तते, पुनः पुनः भोगो वस्त्रादे; तस्माद् विरतिव्रतमगारिणो भवति । ननु च व्रतग्रहणाद्विरतिशब्दो गम्यत एव किमर्थं विरतिग्रहणं, उच्यते, आदरार्थं, दूरतश्चायम्, अत आदृतः कथं नाम पस्हिरेदिति ।