________________
સૂત્ર-૧૫
શ્રી તત્ત્વાર્થાધિગમસૂત્ર અધ્યાય-૭
૧૫૩
अथ द्वयमभिसम्बन्ध्यते अगार्यनगारश्च सोऽणुव्रतो भवतीति, सुतरां महाव्रतानि निराधाराणि स्युः, अतः अगारिग्रहणं कार्यं, न कार्यं, महदित्यनेन शब्देन विशेषितानि व्रतानि यस्य सोऽनगारो महाव्रतीत्युपर्युक्तत्वात्, पारिशेष्यादगार्येव सम्भत्स्यते सोऽणुव्रत इति एवं तर्हि अधिकारार्थमगारिग्रहणम्, अतः प्रभृति यद्वक्ष्यते तत् सर्वमगारिणो भवति, आ अध्यायपरिसमाप्तेरिति । सम्प्रति भाष्यमुक्तार्थानुसारेणाश्रीयते - अणून्यस्य व्रतानीत्यणुव्रत इत्यादिवृत्त्याऽ दर्शयति अनेन बहुव्रीहिवाक्येन अणूनि देशविषयाणि, न समस्तविषयाणीति प्रतिपादयति, अस्येत्यन्यपदार्थप्राधान्यख्यापनं, व्रतशब्दः प्राग्व्याख्यातो निवृत्तिपर्यायः, तदेवमित्यादिना निगमयति सामान्यार्थेन शब्देनानेकभेदसङ्ग्राहिणा, यत्तदोर्नित्यसम्बन्धात् यस्मादणूनि व्रतान्यस्य तस्मादेवमुक्तेन प्रकारेणाणुव्रतधरः प्रतिपन्नाणुव्रत इति, धरणं यथागृहीतव्रताविस्मरणं वक्ष्यमाणातिचारपरिहारेण चानुपालनमत एवंविधः श्रावक इति अगारी व्रती च भवति, पर्यायकथनं चेदं भेदबहुत्वप्रतिपादनार्थम्, एकादशोपासकभेदाः सम्यग्दर्शनप्रभृतयः सकलश्रावकभेदाधारभूता इति, आगमश्च
“१-दंसण २-वय ३-सामाइअ ४ - पोसह ५ - पडिमा ६-अबंभ ७-सच्चित्ते । ८- आरंभ ९ - पेस १० - उद्दिट्ठवज्जए ११ - समणभूए य ॥ १॥" दर्शनप्रतिपत्तेरारभ्य स्वशक्त्यपेक्षया व्रतधारणादिष्वध्यवसायक्रियाविशेषेषु, प्रवर्त्तते प्रवर्धमान श्रद्धः श्रमणभूतान्तेषु स्थानेषु इत्येव - मणुव्रतोऽगारी व्रती भवतीति ॥७-१५ ॥
टीडार्थ- महाव्रतोनी अपेक्षा खलु छे. आशु, स्तोड, अस्थ, देश એ પ્રમાણે પર્યાયવાચી શબ્દો છે. મહાવ્રતો સર્વપ્રાણાતિપાતથી વિરમું છું, ઇત્યાદિ સર્વપાપભેદોથી વિરતિરૂપ છે. આ તો સર્વથી વિરતિને કરતો નથી. તો શું કરે છે ? કોઇક જ પ્રાણાતિપાતથી વિરતિ કરે છે. કારણ