________________
૧૫૨
શ્રી તત્ત્વાર્થાધિગમસૂત્ર અધ્યાય-૭
स्थूलाश्च द्वित्रिचतुःपञ्चेन्द्रियाः, स्थूलत्वं सकललौकिकजीवत्वप्रसिद्धेः, सूक्ष्मत्वं विगानेन जीवत्वप्रसिद्धेर्लोके, तत्रापि सङ्कल्पजं प्राणातिपातं प्रत्याख्याति, नारम्भजम्, आरम्भो हि हल दन्ताल खनन सूनापञ्चकप्रकारः, तत्रावश्यंतयैव शङ्खणकपिपीलिकाधान्यगृहकारिकामण्डूकादयः सङ्घट्टपरितापापद्रावणक्रियाभिः स्पृश्यन्ते, तस्मान्न समस्ति प्रत्याख्यानं तद्विषयं, सङ्कल्पजस्य तु सम्भवति, मनसा सङ्कल्प्य द्वीन्द्रियादिप्राणिनो मांसास्थिचर्मनखवालदन्ताद्यर्थं न हन्मीत्यसुमतो निवर्त्तते सङ्कल्पकृतात् प्राणातिपातात् न करोमि न कारयामि मनसा वाचा कायेनेत्वेवंविषयं प्राणातिपातमित्यादिविकल्पानामन्यतमेन प्रत्याचष्टे, तथा मृषावादात्, न सर्वस्मात् किं तर्हि ? स्थूलाद् अभिन्नकन्यकां असतीमुर्वरां भूमीमभूमिमल्पक्षीरामेव बहुक्षीरां गां नाभिदधेऽहमित्यादिकात्, तथा कूटसाक्षित्वदानादेश्च व्यावर्त्तते, न पुनः स्नेहद्वेषमोहाभिभवात् विपरीतभाषी भवति, प्रत्याख्यानविधिस्तु पूर्ववत् । तथाऽदत्तादानात् न सर्वस्मात्, किन्तु ?, स्थूलाच्चौर्यारोपणहेतुत्वेन प्रसिद्धाद् द्विपदचतुष्पदापदविषयात् निवर्त्तते, न पुनरल्पतृणेन्धनगोमयादिग्रहणात्, प्रत्याख्यानं पूर्ववत्, तथा मैथुनात् न सर्वस्मात्, किन्तु, स्थूलात्, स्थूलं च परदारगमनं, तद्विषयमस्य प्रत्याख्यानं, अन्यपक्षे न प्रत्याख्यानविधिश्च पूर्ववत्, तथेच्छापरिमाणं प्रतिजानीते, अन्यतः परिग्रहाद्विरमति, सचित्तादेः स्थूलात्, स्थूलश्चापरिमाणतः, सर्वेषां क्षेत्रवास्त्वादीनामभिलषितपरिमाणव्यतिरेकं प्रत्याचष्टे, कालनियमेन भक्तवस्त्रभृत्यदारादीनामेतावता मम कार्यमिति शेषात् प्रत्याख्यानं तद्विधिश्च पूर्ववत्, एवमेतानि पञ्चाप्यणूनि स्वल्पविषयाणि, न यथोक्तसमस्तविषयाणि, व्रतानि यस्य सोऽणुव्रतोऽगारी व्रती भवतीति, ननु च सोऽणुव्रत इत्येवं सूत्रं कार्यं, उच्यते, सत्यमेवमनगारिव्रतिपरामर्शः स्यात्, तच्छब्देनानन्तरस्य विधिः प्रतिषेधो वेति वचनात्, अगारिणश्च महाव्रतधारित्वप्रसङ्गः, तच्चासमीचीनं, १. स्थूलाच्चापरिमाणतः इति पाठान्तरम् ।
સૂત્ર-૧૫