________________
૧૪૬
શ્રી તત્ત્વાર્થાધિગમસૂત્ર અધ્યાય-૭ સૂત્ર-૧૪ गेहिनः तत्पूर्वप्रयुक्तसावद्यकरिम्भानुमतिमपहायैवासौ शेषं प्रत्याचष्ट इति, अत एव नियुक्तिकारेण षड्विधो विकल्प उपन्यस्तः द्विविधं त्रिविधेनेत्यादि, द्विविधमिति न करोमि न कारयामि, त्रिविधेनेति मनोवाक्कायत्रयेण, एवं शेषविकल्पा अपि भावनीयाः, त्रिविधं त्रिविधेनेत्यादिषु च त्रिषु विकल्पेषु सहानुमत्या करणत्रयमित्युक्तं नियुक्तिकारेण, ननु च भगवत्यादावागमे त्रिविधं त्रिविधेनेत्यपि विकल्पेऽस्ति प्रत्याख्यानमगारिणोऽङ्गगतश्रुतप्रतिबद्धं च, तदेतन्नियुक्तिकारवचनविघातकारि, उच्यते, नास्ति विघातः, उत्सर्गापवादद्वारेण प्रवृत्तेः, द्विविधं त्रिविधेनेत्यादिरुत्सर्गः, सर्वस्य अगारिण एभिः षड्भिर्विकल्पैः सर्वमेव प्रत्याख्यानं प्राप्तमपोद्यते क्वचिद्विषये, यः किल प्रविव्रजिषुः प्रतिमां प्रतिपद्यते पुत्रादिसन्ततिपरिपालनार्थं तस्यैष संगच्छते विकल्पः, अथवा अत्यल्पं विशेष्य किञ्चिद्वस्तु यदि त्रिविधं त्रिविधेन प्रत्याचक्षीत स्वयम्भूरमणमत्स्यादिकमपि उपपद्यते, स्थूलप्राणातिपातादिविषयं वा, न सकलसावधव्यापारविषयमिति, ननु च नियुक्तिकारेण स्थूलप्राणातिपातादिविषयत्वेन नोपन्यस्तस्त्रिविधं त्रिविधेनेत्यादिर्विकल्पः, सत्यमेतद्, उत्सर्ग एव बहुलं प्रसिद्धत्वानियुक्तिकारेणावाचि, यत् पुनः क्वचिदवस्थाविशेषे कदाचिदेव समाचर्यते न सुष्ठ समाचारानुपाति तन्त्रोक्तम्, विधिसूत्रेषु च विधिमेव भूयसाऽनुरुध्यन्त इति न कश्चिद्दोषः, प्रकृतमुच्यते-भूयोऽगारिणां भेदः
"सोलस चेव सहस्सा अद्वैव सया हवंति अट्ठहिया । एसो उवासयाणं वयगहणविही समासेणं ॥१॥"
अनगारभेदास्तु गच्छवासिनो गच्छनिर्गताश्च, आचार्यादिभेदात् पञ्चधा गच्छवासिनः पुरुषाः, साध्व्योऽपि प्रवर्त्तिन्यादिभेदात् पञ्चधैव सदा गच्छवासिन्य एवैताः, गच्छनिर्गताः पुनर्जिनकल्पिकपरिहारविशुद्धिकप्रतिमाप्रतिपन्नकादयः, अत्र गच्छवास्यादिषु नास्ति व्रतभेदः,