________________
૧૪૫
સૂત્ર-૧૪
શ્રી તત્વાર્થાધિગમસૂત્ર અધ્યાય-૭ प्रतीना मेहअगार्यनगारश्च ॥७-१४॥ सूत्रार्थ-तीन २२॥री भने सन२ मेमभुज्यले छे. (७-१४) भाष्यं- स एष व्रती द्विविधो भवति । अगारी अनगारश्च । श्रावकः श्रमणश्चेत्यर्थः ॥७-१४॥
ભાષ્યાર્થ– તે આ વ્રતી અગારી અને અણગાર, અર્થાત્ શ્રાવક અને श्रम सम प्रा२नो छे. (७-१४)
टीका- अगारं-वेश्म तदुपलक्षणमारम्भपरिग्रहवत्तायाः, आरम्भः सूनापञ्चकं पृथिव्यादिजीवकायोपमर्दहेतुः परिग्रहश्चेतनाचेतनो द्विपदचतुष्पदादिहिरण्यकनकमणिमुक्ताप्रवालादिः, एतद्द्वयमप्यगारशब्देनोपलक्ष्यते, तदेतदारम्भपरिग्रहावगारं यथासम्भवमस्ति यस्य भविष्यतीति जाताशः अपरित्यक्ततत्सम्बन्धः सर्वोऽप्यगारी तदभिसम्बन्धाद् गृहस्थ इत्यर्थः, परित्यक्तारम्भपरिग्रहो भावतस्तद्विपरीतोऽनगारः प्रतिपन्नमूलोत्तरगुणकलापः, चशब्दादगारिणोऽनगारस्य च बहुभेदत्वं प्रतिपादयिषितमिति, अगारिणस्तावद् द्विविधाः सम्यग्दर्शनसम्पन्नत्वे सति गृहीताणुव्रताः प्रतिपन्नोत्तरगुणाश्च, अपरे सम्यग्दर्शनमात्रभाजो, वक्ष्यमाणषड्विकल्पाः सम्यक्त्वोत्तरगुणप्रतिपत्ती चाष्टौ विकल्पाः तथा द्वात्रिंशद्विकल्पाः, तत्र यैर्गृहिभिस्तान्यणुव्रतानि षड्भिः प्रकारैरात्तानि १द्विविधं त्रिविधेन २-द्विविधं द्विविधेन ३-द्विविधमेकविधेन ४-एकविधं त्रिविधेन ५-एकविधं द्विविधेन ६-एकविधमेकविधेनेति एकैकस्मिन् अणुव्रते षड् विकल्पाः, षड् पञ्चकास्त्रिंशत्, प्रतिपन्नोत्तरगुणेन सहैकत्रिंशत्, सम्यग्दर्शनिना सह द्वात्रिंशत्, ननु च नवविकल्पास्त्रिविधं त्रिविधेनेत्यादयः, सप्तचत्वारिंशदुत्तरशतभेदनिष्पत्तेः, सत्यं, सम्भवति साधोर्न त्वगारिणः, सर्वसावद्ययोगप्रत्याख्यानप्रस्तावाभिधानात्, विशिष्टविषयं तत्, सर्वसावधव्यापारप्रत्याख्यानमनुमतेरसम्भवान्नास्ति