________________
શ્રી તત્ત્વાર્થાધિગમસૂત્ર અધ્યાય-૭
સૂત્ર-૧૩
महदन्तर्व्यवस्थितमनेकेन शारीरेण मानसेन च दुःखेन योजयत्यात्मानं अतिभूरिभूतोपमर्दनादारम्भपरिग्रहत्वादिदोषापत्तिश्चेति, तत्त्वार्थाश्रद्धानं मिथ्यादर्शनं अभिगृहीतानभिगृहीतसन्देहभेदात्त्रिधा, तदेव शल्यं व्यालाग्निविषसमुद्रव्याधिकुपितनृपतिशत्रु वर्गादप्यधिक भयकारि
૧૪૦
जन्मान्तरशतसहस्रेष्वागामिष्वविच्छिन्नदुःखसन्तानसङ्कटप्रपातकारित्वात् संसारसागरपरिभ्रमणमूलकारणमशेषापायप्रभवमाजवजवी भावविधायि गूढकर्म्मग्रन्थिविजृम्भमाणदुश्चिकित्सत्वविपाकमात्मसात् करोति, सर्वशल्यातिशायि मिथ्यादर्शनशल्यं, एवमेभिर्मायादिशल्यैः त्रिभिरिति त्रीण्येव शल्यानि तैर्वियुक्तो - विमुक्तोऽन्तर्विशुद्धिप्राशस्त्यान्निःशल्यो व्रती भवतीति, तदेतदनेन प्रतिपादयति - अन्तर्विशुद्धस्य मार्गवर्तिनो यथाशक्ति क्रियानुष्ठायिनः सम्यक्त्वार्जवानाशंसावत: सम्पूर्णव्रतित्वमिति, व्रते विशुद्धे च भाविन्यन्तर्विशुद्धिरिति, ननु च कषायाः कोपादयः सर्व एव शल्यं, मायैव निष्कृष्य किमिति शल्यतया नियम्यत इति, उच्यते, एषा हि लब्धात्मलाभा तिरोधाय कोपादीन् सतोऽप्यात्मसामर्थ्येन वर्त्तते, भुजङ्गीवोपचितविषा छलशतैर्निर्दयं दशति तथा यथा नास्याः कश्चित् साधुवर्गादृते सुकुशलोऽपि विषवेगं रुणद्धीत्यतः सकलदोषजातप्रच्छादननिपुणकुलटाभा मायैव शल्यं, न शेषाः कषाया इति, प्रधानत्वात्तन्मूलत्वाच्च मायाशल्यग्रहणमतः शठतारहितो व्रतीति स्फुटमिदम्, आह च
निःशल्यस्यैव पुनः सर्वं व्रतमिष्यतेऽर्हता लोके । उपहन्यते व्रतं खलु निदानमिथ्यात्वमायाभिः ॥ १॥ निःशल्यतापूर्वकं व्रतित्वमिति प्रदर्शयन्नाह - व्रतान्यस्य सन्तीति व्रती, व्रतानि हिंसाविरमणादीनि तानि व्रतित्वमश्नुवते निःशल्यता आधार इति प्रागभिहितं भूमप्रशंसातिशयनेषु मत्वर्थीयप्रत्ययविधानात् व्रतीति । तदेवमित्यादिना भाष्येण निगमयति प्रकृतमर्थं, निःशल्यो व्रतवान् व्रती भवतीति निःशल्यस्यैव व्रतित्वं न सशल्यस्येति, उक्तमप्यर्थं भूय
,