________________
સૂત્ર-૧૩ श्री तापविरामसूत्र अध्याय-७
૧૩૯ विदधतीत्यतः शल्यानीव शल्यानि, निष्क्रान्तः शल्येभ्यः प्राणातिपातादिविरतियुक्तो व्रती भवति, न शल्यवानिति, शल्यवतो व्रतित्वं नास्तीति सूत्रार्थः, न चात्र विकल्पः समुच्चयो वा वाक्यार्थः, विकल्पस्तावत् न भवति, निःशल्यो वा व्रती वेति, यतः समानकालानां निर्विकल्पेन प्रवृत्तिरिन्द्रियादिशब्दवत्, अभिधेयभेदश्चानयोनिःशल्यव्रतिशब्दयोरतो न विकल्पः, नापि समुच्चयः समुच्चये हि कालभेदो दृश्यते, अहरहर्नीयमान इत्यादौ, तथेहाप्यन्यस्मिन् काले निःशल्योऽन्यत्र काले व्रती स्याद्, अनिष्टं चैतद्, इष्यते चैककालेन तदुभयमतोऽङ्गाङ्गीभावोऽत्राश्रीयते, निःशल्यताऽङ्ग अङ्गी व्रतीति, वाक्यार्थश्चायं-न हिंसादिविरमणमात्रसम्बन्धाद् व्रतीति, किं तर्हि ?, शल्यापगमे सति व्रतसम्बन्धाद् व्रतीति, बहुक्षीरघृतो गोमानिति यथा, तदभावे सतीष्वपि गोषु न गोमान् इति प्रधानानुविधायी च गुणो भवतीति, प्रधानमङ्गी व्रती निःशल्यता गुणोऽप्रधानमिति, तस्मादङ्गाङ्गीभावाभ्युपगमाददोष इति, आह च"निःशल्यस्यैव पुनः सर्वं व्रतमिष्यतेऽर्हता लोके । अभिहन्यते व्रतं खलु निदानमिथ्यात्वमायाभिः ॥१॥ एनमेवार्थं भाष्येण प्रतिपादयति मायेत्यादिना माया शाठ्यमुपधिः छद्म कषायविशेषः, शल्यशब्दः प्रत्येकमभिसम्बध्यते, मायाशल्यं निदानशल्यं मिथ्यादर्शनशल्यमिति, मिमीते परानिति माया तेन शल्येन परेषां सारासारप्रमाणमादत्त इति, इयन्त एत इति, सुखसाध्या गृहीतहृदयावष्टम्भानवष्टम्भाः, निदायते-लूयतेऽनेनेति निदानं-अध्यवसायविशेषो, देवेश्वरचक्रवर्तिकेशवादीनामृद्धीविलोक्य तदीययोषितां वा सौभाग्यगुणसम्पदमार्तध्यानाभिमुखीकृतः महामोहपाशसम्भूतः भूरितपस्वितापरिखेदितमनसाऽध्यवस्यति-ममाप्यमुष्य तपसः प्रभावादेवंविधा एव भोगा भवेयुर्जन्मान्तरे सौभाग्यादिगुणयोगश्चेत्येवं निदाति-लुनाति क्षुद्रत्वात् छिनत्ति मौक्त्यं सुखमिति, तच्च शल्यं