________________
સૂત્ર-૧૨
શ્રી તત્ત્વાર્થાધિગમસૂત્ર અધ્યાય-૭
मूर्च्छा, तद्विरहितस्याप्रमत्तकायवाङ्मनोव्यापारस्य तु संयमोपकारिषूपधिशय्याऽऽहारशरीरेष्वागमानुज्ञातेषु न समस्ति मूर्च्छा, यथोक्तं
૧૩૧
"जंपि वत्थं व पायं वा, कंबलं पायपुंछणं । तंपि संजमलज्जट्ठा, धारंति परिहरंति य ॥१॥" न च योग्योपकरणकलापादृते साध्यार्थसिद्धिरस्ति, येऽपि मूढाः पात्रवस्त्राद्यागमोक्तं मुक्तिसाधनमुपकरणमहिंसाव्रतपरिपालनप्रत्यलं न परिगृह्णते तैरपि जघन्यतः शरीराहारशिष्यादिपरिग्रहोऽवश्यंतया कार्य एवेति न परमनालोच्यैवोपलब्धुमर्हन्तीति, अल्पबहुत्वाद्विशेष इति चेदित्यप्यसत्, दरिद्रस्य द्रविणमल्पं महर्द्धिकस्य प्रभूतमिति न दुर्गतोऽपरिग्रह इत्युच्यते, तस्मात् मूर्च्छालक्षण एव परिग्रहो, नेतर इत्यवश्यंतया प्रतिपत्तव्यमवशेनापीति,
प्रकृतमुच्यते, मूर्च्छालक्षितपरिग्रहनिर्दिदिक्षया भाष्यकृदाहचेतनावत्स्वित्यादि चेतना - चैतन्यं ज्ञानदर्शनोपयोगः स येषु विद्यते ते चेतनावन्तस्तेषु चेतनावत्सु-एकद्वित्रिचतुष्पञ्चेन्द्रियेषु, अचेतनेषु च प्रायो वास्त्वादिषु, बाह्याभ्यन्तरभेदभाक्षु रागादिष्वात्मपरिणामेषु मूर्च्छा, द्रव्येष्विति विषयनिर्देशः क्वचिद् पुद्गलद्रव्यमेव शुद्धं क्वचिदात्मप्रदेशसंयुक्तमिति, द्रव्यग्रहणाच्चतुर्विधं परिग्रहं सूचयति, क्षेत्रतो ग्रामनगराद्यवच्छिन्नता द्रव्यस्य, कालतो रात्रिंदिवव्यवच्छिन्नता, भावत इति प्रतिविशिष्टवस्तूपलम्भे महार्घे सति अतिशयवती मूर्च्छा प्रजायते, मध्ये मध्या, जघन्ये जघन्येति, मूर्च्छायाश्चासंमोहार्थमिच्छादीन् पर्यायानाचष्टे भाष्यकार:-इच्छा शतधनः सहस्रमिच्छति सहस्रधनो लक्षमिच्छतीत्यादिपरम्परया सकलेन त्रैलोक्येनापि न ध्रायति, प्रकर्षेणार्थना प्रार्थना तन्निष्ठत्वात् अविद्यमानकिञ्चनमात्रोऽपि परमेव याचते तृष्णया वशीकृतः, कमनं कामो यथाप्रधानद्रव्यकामिता यद्यद्गुणवद्द्रव्यं तत्तदनुरुध्यत इतियावत्, अभिलाषस्तु मानस एव व्यापारः परर्द्धिदर्शनादाक्षिप्त
"