________________
૧૩૦
શ્રી તત્ત્વાર્થાધિગમસૂત્ર અધ્યાય-૭ સૂત્ર-૧૨ टीका- अत्र प्रमत्तयोगादित्यनुवर्तते, मूछेति 'मूर्छा मोहसमुच्छाययोः' मूर्च्छयतेऽनया आत्मेति मूर्छा-लोभपरिणतिस्तयाऽऽत्मा मोहमुपनीयते-विवेकाद् प्रच्याव्यते, प्रच्युतविवेकश्च प्रतिविशिष्टलोभकषायोपरागादसमञ्जसप्रवृत्तिप्रवणोऽयमात्मा कार्यमकार्यं वा न किञ्चिच्चेतयते, समुपगूढमूढिस्तृष्णापिशाचिकावशीकृतचेतोवृत्तिश्चेष्टतेऽन्धबधिरवदनालोचितगुणदोषः, समुच्छ्रायो वा मूर्छा, समुच्छीयतेप्रतिक्षणमुपचीयतेऽयमात्मा लोभोपरागबलानुरञ्जितो हिंसादिदोषैः, अतः सकलदोषाग्रणीर्लोभः, तथा च लुब्धो हिंसादिषु निरारेकं प्रवर्त्तते, तनयः पितरमपि हिनस्ति भ्रातरं सहजः पिताऽऽत्मजमेवं जामिजनीपत्न्यादयोऽपि वाच्याः, गृहीतोत्कोचश्च कूटसाक्षित्वदायी ह्यनृतं भाषते, बलप्रकर्षात् पथि मुष्णाति पथिकजनं, खनति क्षत्रमपि, चौर्यात् लाभलोभाच्च राजादियोषितमप्यभिगच्छति, सर्वथा न कश्चन भावो बहिरन्तर्वा समासन्नो दूरदेशवर्ती वा मनोहरदर्शनः प्रतिकूलो वा यमयं विजह्याद्भावेन, प्रचुरतरानिष्टसंपादनलघूनि चोपनीयन्ते दुश्चरितानि लोभभुजङ्गेन, अनेन पथीकृतः परमगौरवायतनेऽपि विषयपरिगायन परिस्खलतीति मूर्छा लोभ इति निरचायि सर्वैः प्रकारैः, सा च मूर्छा लोभलक्षणा अभ्यन्तरबहिर्विषयालम्बना, तत्राभ्यन्तरो विषयः चतुर्दशविधः, तद्यथारागद्वेषक्रोधमानमायालोभमिथ्यादर्शनहास्यरत्यरतिभयशोकजुगुप्सावेदाख्यः, बहिरपि वास्तुक्षेत्रधनधान्यशय्यासनयानकुप्यद्वित्रिचतुष्पाद्भाण्डाख्य इत्येतावद्विषयो मूर्छायाश्चेतःपरिणामरूपायाः, एते रागादयः परिग्रहहेतुत्वान्मूर्छा, वास्त्वादयश्च ममेत्येवमज्ञानाविषयीकृताः कालुष्यवताऽऽत्मनाऽनेकविधजन्मग्रन्थिस्थिरीकरणायापर्यालोचितपूर्वापरभावेन परिग्रहोऽभिधीयते, परिगृह्यत इति परिग्रहः, लोभानुरक्तचित्तवृत्त्या स्वीक्रियत इतियावत्, परिणामविशेषो मूर्छा, सैव च परिग्रहसद्भावपरिणामादात्मनो हिंसादिवत् प्रमत्तयोगानुवृत्तिसामर्थ्यात् सङ्क्षपतो रागद्वेषमोहमूला