________________
૧૨૪
શ્રી તત્ત્વાર્થાધિગમસૂત્ર અધ્યાય-૭ સૂત્ર-૧૧ भेदाद्दशविधादब्रह्मणो निवृत्तश्चरन् ब्रह्म । ब्रह्मध्वनिवाच्यः आत्मैव, चरणं चर्यम्, आत्मनो ब्रह्मणः सेवनमात्मन्यारमणं, न बहिर्मुखचित्तता स्त्र्यादिविषया, अतो मनोवाक्कायैः कृतकारितानुमतियुक्तैः परिहारोऽङ्गनाविषयः सर्वथा ब्रह्मचर्य, आत्मन्येव वृत्तेः संवृतेन्द्रियद्वारत्वात्, तद्विपरीतमब्रह्म, तच्च तीव्ररागानुबन्धिना सङ्कल्पेन चोदितः कायव्यापारो दशनकोटिकृतालिङ्गनकरजघट्टनालक्षणः तत्कालरमणीयकलप्रलापश्चानेकविधो वाग्व्यापारो विपरीतदर्शनाहितात्मकतिपयप्रेमलेशात् स्वकल्पनासमारोपितमनोज्ञकानुपजातातुलविषयतर्षपरिमुषितशेमुषीकान् पुंसः क्रशयत्यतितरां, तथा चानुकूलत्वाद्दुस्त्यजमपीदमशुचित्वादिभावनाजालसंस्पर्शनाद्विवेकिनो जहत्यवधारितमकरध्वजप्रसराः, तदेवेदमब्रह्म यथोक्तलक्षणं भाष्येण प्रकाशयन्नाह-स्त्रीपुंसयोरित्यादि स्त्री च पुमांश्च स्त्रीपुंसौ, अचतुरादि (पाणि० अ.५ पा.४ सू.७७) सूत्रलक्षितः स्त्रीपुंसशब्दः, तयोः स्त्रीपुंसयोरद्भुततीव्रवेदपरिणामयोमिथुनतामिथुनभावश्चित्तपरिणामो मोहकर्मोदयात् क्लिष्टः परस्परमाश्लेषे सति सुखमुपलिप्समानयोः स्त्रीपुंसग्रहणादेवोदितवेदयोर्यो मिथुनभावः, कृत्तद्धितसमासानां चाभिधानलक्षणत्वात् प्रतिविशिष्टमैथुनकर्मसम्प्रत्ययो, न पुनः प्रयोजनवशादासन्नप्रदेशस्थितस्त्रीपुंसमिथुनमात्रं मिथुनभावो मैथुनकर्म वाऽभिधीयते, ततश्च स्त्रीप्रव्रजितयोश्चैत्याभिवन्दनादिकर्मण्यप्रसङ्गो मिथुनभावस्य, तदब्रह्मेत्यनेन तच्छब्देन स्त्रीपुंसादिलक्षणो मिथुनभावो मैथुनकर्म वा, सर्वमेतन्मैथुनमब्रह्मेति निगमनद्वारेण परामृश्यते, स्त्रीपुंसग्रहणं प्रधानत्वात् पूर्वोक्तसकलविकल्पप्रतिपादनार्थं, प्रधानं च स्त्रीपुंसयोमिथुनभावः, पृथग्जनाचरितास्तु शेषविकल्पाः, ते च स्त्रीपुंसग्रहणेन सर्वेऽपि सूचिताः, तदेतदब्रह्म सङ्क्षपतो रागद्वेषमोहमूलमनर्थपरम्पराकारि, रागात् परदाराभिगमलाभसत्कारात्ममित्रत्राणार्थमासेवते, द्वेषाद् वैरनिर्यातनार्थं, मोहात् स्वस्रादिपरिभोगा