________________
સૂત્ર-૧૧ શ્રી તત્ત્વાધિગમસૂત્ર અધ્યાય-૭
૧૨૩ दिव्यमानुषतिर्यस्त्रिया सह संयुज्यते, अथवा पुरुषेण नपुंसकेन, फलादिविवरेण स्वहस्तादिना वा, एवं योषिच्चेतनं कन्दादिभिरन्यहस्तादिभिरपीति, पश्चिमविकल्पे तूदितवेदः पुमानचेतनाभिर्दिव्यमानुषतिर्यक्रस्त्रीप्रतिमाभिर्लेप्यकाष्ठोपलपुस्तकर्मरूपाभिः सह संपृच्यतेऽन्यैश्चाचित्तश्रोतोभितशरीरकेण वा, तथा योषिदचेतनपुरुषप्रतिकृतिवर्तिना लिङ्गेन काष्ठशलाकादिना वा सह संयुज्यते, बहुप्रकारेण कृत्रिमोपकरणेन विडम्बयत्यात्मानं, एवं सर्वत्र मिथुनसम्भवः, तयोर्भावो मैथुनं
अविकृतत्वाद् युवादेराकृतिगणत्वादण, अथवा मिथुनस्येदं कर्म 'तस्येद'मित्यण, अचेतनमपि हि वस्तु प्रतिमादि विवक्षितकर्मयोग्यतया परिणममानमनुग्राहकं तथा भवतीति समीचीनमिदं तयोर्भावो मैथुनमिति, आगमतस्तु द्रव्यक्षेत्रकालभावभेदाच्चतुर्दा मैथुनं, द्रव्यतो रूपेषु वा रूपसहगतेषु वा द्रव्येषु, रूपमचेतनं पुद्गलद्रव्यमानं प्रतिमादिर्न तु वर्णमात्रमेव, रूपसहगतेषु वा द्रव्येष्विति, रूपं तदेव पुद्गलद्रव्यं तादृशा रूपेण सह सम्भूय गतानि जीवद्रव्याणि, गतानीत्यन्योऽन्यानुवेधिना परिणामेन परिणतानि, चेतनाभाञ्जि शरीराणीत्यर्थः, तद्विषयं मैथुनं द्रव्यतः, क्षेत्रतोऽनन्तरवत्, कालभावौ च पूर्ववत्, भावो हि रागद्वेषपरिणाम आत्मन इत्यतः प्रमत्तयोगादित्यत्रानुवर्तमानमपि नोपयुज्यते, यत्राप्रमत्तस्य सतस्तथाभावे सति कर्मबन्धाभावः तत्र प्रमत्तयोगग्रहणमर्थवत् भवति, प्रमत्तस्य कर्मबन्धो नाप्रमत्तस्येति, प्राणातिपातवत्, इह पुना रागद्वेषान्वयाविच्छेदात् सर्वास्ववस्थासु मैथुनासेविनः कर्मबन्ध इति, आह च
"कामं सव्वपएसुवि उस्सग्गववातधम्मता जुत्ता । मोत्तुं मेथुणभावं ण विणा सो रागदोसेहिं ॥१॥" ।
अतश्चानर्थकमेव प्रमत्तग्रहणमत्रेति, मण्डूकप्लुत्या वाऽधिकारानुवृत्तिः, असङ्ख्येयलोकाकाशप्रदेशपरिमाणबृहत्त्वादात्मा ब्रह्मा, स च मैथुनानुस्मृतिसंस्कारस्पृहेन्द्रियालोकवृष्यरसविषयविकथासत्कृतिसंसक्तसेवा