________________
सूत्र
શ્રી તત્ત્વાર્થાધિગમસૂત્ર અધ્યાય-૭
१०७
""उपस
आदिशब्दाद् वाक्छलशठदम्भकल्कविकारोल्लप्तिककटुकसंदिग्धाहितामिताप्रशस्तविकथाश्रितप्रवचनविरुद्धसावद्यग्रहणमिति । आगमश्च
"जा य सच्चा अवत्तव्वा, सच्चामोसा य जा मुसा । जा य बुद्धेहिं णाइण्णा, ण तं भासिज्ज पण्णवं ॥१॥" वाचकेनाप्युक्तं "सद्भावदोषवद्वाक्यं, तत्त्वादन्यत्र वर्त्तते । सावधं चापि यत् सत्यं, तत् सर्वमनृतं विदुः ॥२॥" तथा परेणाप्युक्तं"अनृतमसद्वचनं स्याच्चतुर्विधमसच्च जिनवरैदृष्टम् । सद्भूतप्रतिषेधोऽसद्भूतोद्भावनं च तथा ॥१॥ नास्ति घटः शशशृङ्गमस्तीति ॥ गर्हितवचनं चासत् सतोऽपि वा वचनमन्यथा यत् स्यात् । गर्हितमुपघातादीतरच्च गौरश्व इति वचनम् ॥२॥"
तस्मात् प्रमत्तयोगादसदभिधानमनृतमिति व्यवस्थितं, तच्च सक्षेपतश्चतुःस्थानसगृहीतं, सर्वद्रव्यविषयमनृतं, द्रव्याणि च लोकालोकावच्छिन्नानि, कालो रात्रिंदिवलक्षणः, भावतो रागद्वेषमोहपरिगत आत्मा, अनेनैतदपि प्रतिक्षिप्तमवसेयं'न नर्मयुक्तं वचनं हिनस्ति, न स्त्रीषु राजन्न विवाहकाले । प्राणात्यये सर्वधनापहारे, पञ्चानृतान्याहुरपातकानी" ॥१॥
ति, अपरे तु मोहादयुक्तं मृषावादलक्षणं ब्रुवते-"अन्यथासंज्ञिनो वाक्यमर्थाभिज्ञे मृषा वचः ।" यद्वचनं यमर्थं ब्रवीति तस्मिन्नन्यथा संज्ञी भवति चौरमचौरमिति, यं वाऽधिकृत्य ब्रवीति स तस्य वाक्यस्यार्थाभिज्ञो यदि भवति ततस्तद् वाक्यं मृषावादः, अर्थाभिज्ञश्चाभिज्ञातुं समर्थो, यश्च व्युत्पन्नभावः- उत्पन्ने श्रोत्रविज्ञाने, वाक्यार्थश्च मनोविज्ञानविषयः, ततश्च