________________
૧૦૬
શ્રી તત્ત્વાર્થાધિગમસૂત્ર અધ્યાય-૭ સૂત્ર-૯ निष्क्रिय इति व्याचक्षते, तदप्यसदर्शनम्, आत्मनः सर्वगतत्वे प्रमाणाभावाद्, उपेत्य चाभिधीयते-सर्वगतात्मनः सर्वत्र सर्वोपलब्धिप्रसङ्गः, अथ यत्रैवोपभोगोपलब्ध्यधिष्ठानं शरीरमस्ति तत्रैवोपलब्धिस्तदभावान्नान्यत्र चेत् तदयुक्तम्, अन्यत्रापि शरीरकाणां भावात्, निजधर्माधर्मोत्पादितं यच्छरीरकं तत्रेति चेत्, तदसत्, निष्क्रियत्वात् आत्मनस्तावेव धर्माधर्मों कथं निजाविति निष्क्रियस्य संसारमुक्तिप्रहाणप्राप्त्युपायानुष्ठानाभावादसमीचीन एव निष्क्रियत्वपक्षः, आदिग्रहणात् क्षणविनश्वरविज्ञानमात्रतोद्भावनं स्कन्धमात्रतोद्भावनमवक्तव्यतोद्भावनं वा सर्वमनृतमिति । असत एव द्वितीयभेदव्याख्यानायाह-अश्वं च गौरिति, य इति प्रमत्तस्य कर्तुनिर्देशः, गौशब्दः सङ्केतवशाद् सास्नादिमति पिण्डे लोकेन व्यवहारार्थं प्रयुज्यत इति रूढम्, अश्वशब्दोऽप्येकशफाद्यवयवसनिवेशविशेषे प्रसिद्धः, वक्ता तु वैपरीत्येन मौढ्यात् प्रयोगं करोति अश्वशब्दं गवि प्रयुङ्क्ते, शाठ्याद्वा, गोशब्दं चाश्व इति, एवम् अचौरं चौर इत्यादि । असत एव तृतीयभेदो गर्दा, तद्विवरणायाह-'हिंसे'त्यादि, गर्हणं-गर्हा कुत्सा शास्त्रप्रतिषिद्धवागनुष्ठानं गर्हितं कुत्सितमितियावत्, युक्तशब्दः प्रत्येकमभिसम्बध्यते, हिंसायुक्तं वचः सद्भूतार्थप्रतीतिकार्यपि अलीकमेव, यतो हिंसानिवृत्तेम॒षावादादिनिवृत्तिः परिकरः, हिंसानिवृत्तिपरिरक्षणार्थमेव हि मृषावादादिनिवृत्तय उपदिष्टाः, तत्र हिंसाअभिहितलक्षणा येन वचसा उच्यमानेन प्राणिनां परितापावद्रावणे भवतस्तद्धिसायुक्तं वचः सत्यमप्यागमे कुत्सितत्वादनृतमेव भवति, यतः प्राणिपीडापरिरक्षणार्था मृषावादादिनिवृत्तिरिति । तथा पारुष्ययुक्तं, परुषो-निष्ठुरस्तद्भावः पारुष्यं, निष्ठुरवचनाभिव्यङ्ग्यमन्तर्गताशुभभावपिशुनं, तदपि परपीडोत्पादहेतुत्वात् सत्यमपि गर्हितं, तथा पैशुन्ययुक्तं मर्मसु नुदन् परान् पिशुन उच्यते तद्भावः पैशून्यं, येन येन वचसा उच्चार्यमाणेन परस्य प्रीतिविहन्यते तत् सर्वं पैशून्ययुक्तमिति,