________________
सूत्रશ્રી તત્ત્વાર્થાધિગમસૂત્ર અધ્યાય-૭
૧૦૫ प्रतिषेधो-निराकरणं, यदेतदुत्पद्यतेऽवतिष्ठते व्येति चेति तदेकमेवंविधं नास्तीत्यपहनुवते, तत्र सद्भावप्रतिषेधो नामेति नामशब्दो वाक्यालङ्कारार्थः, सद्भावप्रतिषेधो द्विविधः-भूतनिह्नवः अभूतोद्भावनं च, भूतस्य-विद्यमानस्य निह्नवः-अपलापः, तद्यथा-नास्त्यात्मा नास्ति परलोक इति, विद्यमानस्यात्मनः कर्तुः शुभाशुभानां कर्मणां अनुभवस्मरणादिक्रियाधारस्य नास्तित्वं केचित् मोहात् प्रतिजानते, आत्माभावे च परलोकिनोऽभावात् पस्लोकाभाव इति सुज्ञानम्, आदिग्रहणाद् शुभाशुभकर्मतदुपभोगफलाभावपरिग्रहः, सद्भावप्रतिषेधभेद एवाभूतोद्भावनं, चशब्दः समुच्चयार्थः, यथावस्थितात्मसद्भावमसङ्ख्येयप्रदेशपरिमाणमाश्रयवशात् संकोचविकासधर्मकमरूपरसगन्धस्पर्शमनेकप्रकारक्रियमवधूयाज्ञानबलेनात्मानमभूतमेवात्मतत्त्वं समुद्भावयन्ति स्वरुच्या श्यामाकतन्दुलमात्रोऽयमित्यादि, श्यामाकः-कुधान्यविशेषः तस्य तन्दुलस्तत्प्रमाणः श्यामाकतन्दुलमात्रः, अयमित्यनुभवगम्यः स्वप्रत्यक्ष आत्मा निर्दिश्यते, तथा 'अङ्गष्ठपर्वमात्र'मिति, अङ्गुष्ठःपाणेरवयवः तस्य लेखाऽवच्छिन्नः उपरितनो भागः पर्व तत् प्रमाणमस्येत्यङ्गष्ठपर्वमात्र आत्मा, इत्थं चाभ्युपगमे तस्यात्मनः शरीरैकदेशावस्थाने सति शेषदेशानां चेतनाऽभावप्रसङ्गः, ततश्च दंशमशकमक्षिकादितोदने शस्त्रच्छेदने च तेषु देशेषु न दुःखवेदना स्यात्, चन्दनादिविलेपने च न सुखानुभवः, स्वानुभवसिद्धाश्च सुखदुःखवेदना इत्यतः प्रमाणविरुद्ध एव पन्थाः प्रहातव्यः, 'आदित्यवर्ण'इति भास्कररूपः, तस्य चारूपादित्वादमूर्तत्वाच्च कुतो भास्वरता, कात्मप्रदेशानामन्योऽन्यानुगतिलक्षणपरिणामाभ्युपगमे समस्ति रूपादिमत्ता चेत् तदसत् ज्ञानावरणादिपुद्गलानामभास्वरत्वात्, तस्मादयमपि हेयः पक्षः, 'निष्क्रिय' इति । आत्मा सर्वगतस्तस्य च (? न) गमनागमनवीक्षणभोजनादिका क्रिया कायवाङ्मनःकरणजनिता तदभावादात्मा