________________
શ્રી તત્ત્વાર્થાધિગમસૂત્ર અધ્યાય-૭
સૂત્ર-૯
ભાષ્યાર્થ— અસત્ એટલે સદ્ભાવપ્રતિષેધ, અર્થાંતર અને ગાઁ. તેમાં સદૂભાવપ્રતિષેધ એટલે સદ્ભૂતનિહ્નવ અને અભૂતોદ્ભાવન. તે આ પ્રમાણે- આત્મા નથી, પરલોક નથી ઇત્યાદિ ભૂતનિર્ભવ છે.
१०४
આ આત્મા શ્યામાકતંદુલ જેટલો છે, આ આત્મા અંગુષ્ઠપર્વ જેટલો छे, साहित्यवर्ण छे, निष्क्रिय छे, हत्याहि खलूतोहुलावन छे. અશ્વને ગાય કહે, ગાયને અશ્વ કહે તે અર્થાંતર છે.
ગર્હ એટલે હિંસા-પારુષ્ય-વૈશુન્ય આદિથી યુક્ત વચન. આવું વચન સત્ય હોય તો પણ ગર્ધિત હોવાથી અસત્ય જ છે. (૭-૯)
टीका - एतदुक्तं भवति - प्रमत्तयोगादित्यनुवर्त्तते, अतो वाक्यार्थःप्रमत्तयोगादसदभिधानमनृतमिति, प्रमत्तो यः कायवाङ्मनोयोगैरसदभिधानं प्रयुक्ते यत्तदनृतं भावसाधनः करणसाधनो वा अभिधानशब्दः, अव्ययमृतमिति सत्यार्थे, न ऋतमनृतं मिथ्याऽनृतमिति सूत्रविन्यासो युक्तो लघुत्वादिति चेन्न, सत्याभासकस्य परपीडाकारिणो वचसः पापादानहेतुकस्य प्रतिषेधाय कौशिकादिवाक्यस्येवासदभिधानग्रहणं, एवंविधे च सूत्रविन्यासे पर्यायमात्रमित्युक्तं स्यात्, न तु लक्षणं मृषावादस्येति, असद्ग्रहणे तु सर्वमुपपद्यते, अभिधानं वाग्योगविषयः भावसाधनपक्षे, प्रमत्तस्याभिहितमात्रं करणसाधनपक्षे, प्रमत्तस्याभिनिविष्टचेतसः आत्मनः कर्तुर्विवक्षितार्थप्रतिपादने साधकतममिति, कायेन हस्तलोचनौष्ठपादाद्यवयवक्रियाभिरलीकाभिः परं वञ्चयति, न चाप्यसद् ब्रवीति, मनसाऽप्यालोचयति एवं परः प्रतारणीय इति । सच्छब्दः प्रशंसार्थो लोकप्रतीतः, सत्पुरुषः सज्जन इत्यादिषु प्रयोगेषु, न सद् असत् - अप्रशस्तमाप्तप्रणीतागमनिन्दितं निषिद्धं वा 'तच्च त्रिविधम् असदि' त्यादिना भाष्यकारो दर्शयति असदिति सद्भावप्रतिषेधः, असदित्यस्य शब्दस्यायमर्थ:-सतो भावः सद्भावः सच्चोत्पादव्ययध्रौव्ययुक्तं तस्य भावः, तदेव न तथा भवतीत्यनेकेन पर्यायरूपेण तस्य