________________
૧૭.
सूत्र-२
શ્રી તત્ત્વાથધિગમસૂત્ર અધ્યાય-૧ निशङ्कमन्यदेव विग्रहान्तरमाह-'तत्त्वेन' इत्यादि, तत्त्वेन चार्थानां श्रद्धानमिति, इदमप्यर्थकथनं, न तु त्रिपदः तृतीयातत्पुरुषः सम्भवति, एवं च दृश्यम्-अर्थानां श्रद्धानमर्थश्रद्धानं (तत्त्वेन अर्थश्रद्धानं) तत्त्वार्थश्रद्धानमिति, वाशब्दः पक्षान्तरप्रदर्शनार्थः, अयं वा पक्ष आस्तेयमि(स्थेय इ)ति, यदेवम्भूतं तत् सम्यग्दर्शनमिति लक्ष्यनिर्देशः । अत्रैव भावार्थमाह-'तत्त्वे'त्यादिना, 'तत्त्वेन' यथावस्थितवस्तुविषयतया न विपर्ययेण, भावतः स्वप्रतिपत्त्या, न मातापित्रादिदाक्षिण्येन, निश्चितमेवेत्यवधारितं, न संदिग्धमित्यर्थः, तत्त्वेन वा अस्य वा विवरणं भावतो, निश्चितमित्यर्थः, एवं समासकल्पनाद्वयं निर्दिश्यावयवार्थं दर्शयन्नाह-'तत्त्वानी'त्यादि तत्त्वानीति-अविपरीतभावव्यवस्थानि तानि जीवादीनीति, जीवा उपयोगलक्षणा आदिर्येषां सूत्रक्रममाश्रित्य, तानि जीवादीनि वक्ष्यन्ते, तत्त्वार्थशब्दयोर्विशेषणविशेष्यकल्पनापक्षमाश्रित्याह"त एव चार्था" इति, त एव चेत्यर्थापेक्षया पुल्लिंगनिर्देशः, त एव च जीवादयोऽर्यमाणत्वादाः, श्रद्धानमित्यस्यार्थमाह-'श्रद्धानमि'त्यादि, श्रद्धानं नाम तेषु जीवादिष्वर्थेषु 'प्रत्ययावधारण'मिति, प्रत्ययेन तदावरणीयकर्मक्षयोपशमादिना निमित्तेनालोचनाज्ञानेन वा तदुभयेन श्रुताद्यालोच्यैवमेवैतत्तत्त्वमेतच्च तत्त्वमितिरुचिरूपा वा वृत्तिः प्रत्ययावधारणमिति, आह-तत्त्वेन चार्थानामिति षष्ठ्यर्थं प्राक् प्रदर्श्य तेषु प्रत्ययावधारणमित्यत्र सप्तम्यर्थकथनं किमर्थं ?, उच्यते, प्रायेणानयोरभेदख्यापनार्थं, तथा च प्रायः षष्ठीसप्तम्योरभेद एव दृश्यते, यथा गिरेस्तरवः गिरौ तरव इति, ये हि यस्यावयवास्ते तस्मिन् भवन्ति, एवमत्रापि, यज्जीवादीनां श्रद्धानं ततस्तद्विषयमिति, एवं तत्त्वार्थश्रद्धानमित्येतत्पदं विवृत्य सम्यग्दर्शनपदं तु पूर्वमेव विवृतमिति विहाय यथेदमुत्पन्नं सत् परेणापि ज्ञायते तथा सलिङ्गमैदम्पर्येणाभिधातुमाह'तदेव'मित्यादि, यतः श्रद्धानं तेषु प्रत्ययावधारणं, तदेवं व्यवस्थिते सति