SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ ૧૮ શ્રી તત્ત્વાર્થાધિગમસૂત્ર અધ્યાય-૧ સૂત્ર-૨ प्रशमश्च संवेगश्चेत्यादिर्द्वन्द्वः, तत्र प्रशम:-क्रोधक्षयोपशमादेः सत्यसति वा दोषनिमित्ते क्षान्तिपरिणामः, संवेगः सम्भीतिर्नरकादिगत्यालोचनात्, मोक्षैकशरणता निर्वेदो विषयेषु दोषदर्शनेन, अनुकम्पा दुःखितेषु कारुण्यं, आस्तिक्यम्-अस्ति जीवादितत्त्वमिति मतिमतो भावः, एषां प्रशमसंवेगनिर्वेदानुकम्पास्तिक्यानामभिव्यक्ति:-प्रकटता सैव लक्षणंचिह्नं यस्य तत्तथाविधं तत्त्वार्थश्रद्धानं सम्यग्दर्शनमिति । एवम्भूतं यत्तत्त्वार्थश्रद्धानं तत् सम्यग्दर्शनं, न पुनर्वचनमात्रकमेव, एतच्च किल समस्तप्रशमादिलिङ्गयुक्तं नैश्चयिकं, 'जं मोणंति पासहा, तं संमंति पासहा' (यन्मौनमिति पश्यत तत् सम्यगिति पश्यत, यत् सम्यगिति पश्यत तत् मौनमिति पश्यत) इत्यादिवचनविषयं, आस्तिक्याद्यन्यतरलिङ्गयुक्तं तु व्यावहारिकं, पश्चानुपूर्व्या च प्राय आस्तिक्यादिभावः, न परमार्थतोऽप्रतिपन्नजिनवचनानां अनुकम्पादयः, प्रशमादिक्रमोपन्यासस्तु यथाप्राधान्यमिति । अत्राह-जिनवचनानभिज्ञानां माषतुषादीनां कथं यथोदितं तत्त्वार्थश्रद्धानमनाभोगप्रधानत्वादिति, अत्रोच्यते, अस्त्यनाभोगो ज्ञानावरणोदयजन्यः, क्षयोपशमात्तु दर्शनविपरीतरुचिनिबन्धनस्य मिथ्यात्वमोहनीयस्य तदभावाद्यत्रावगमः तत्राविपरीतैव श्रद्धा, इतरत्राप्यप्रतिहता तत्छक्तिर्यथाऽनाबाधं तथैव प्रवृत्तेरित्यत एव मार्गदेशनानुसारिणोऽसद्ग्रहरहिताश्च सम्यग्दृष्टयो भवन्तीत्यभिदधति विद्वांस इत्यलं प्रसङ्गेन, प्रकृतं प्रस्तुमः ॥१-२॥ अर्थ- तत्र श६ १७य प्रारमन। अर्थमा छे. अर्थात् पश्यनो પ્રારંભ કરવા માટે પહેલાં તત્ર શબ્દ મૂકેલો છે. સમ્યગ્દર્શન તત્ત્વભૂત પદાર્થોની રુચિરૂપ છે. આવું સમ્યગ્દર્શન મિથ્યાત્વમોહનીયના ક્ષય આદિ નિમિત્તથી થાય છે. સમ્યગ્દર્શન અજ્ઞાનથી અન્ય પરિણામ છે, અર્થાત પહેલાં અજ્ઞાનના કારણે આત્માનો જે પરિણામ હતો તે પરિણામ હવે બદલાઈ જાય છે. પહેલાં અજ્ઞાનયુક્ત પરિણામ હતો, હવે જ્ઞાનયુક્ત પરિણામ છે. આ પ્રમાણે સૂત્રનો સંક્ષિપ્ત અર્થ છે.
SR No.022485
Book TitleTattvarthadhigam Sutram Part 01
Original Sutra AuthorN/A
AuthorRajshekharsuri, Dharmshekharvijay, Divyashekharvijay
PublisherArihant Aradhak Trust
Publication Year2014
Total Pages410
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy