________________
શ્રી તત્વાર્થાધિગમસૂત્ર અધ્યાય-૧
સૂત્ર-૨ जीवादीनि वक्ष्यन्ते । त एव चार्थास्तेषां श्रद्धानं तेषु प्रत्ययावधारणम् । तदेवं प्रशमसंवेगनिर्वेदानुकम्पास्तिक्याभिव्यक्तिलक्षणं तत्त्वार्थश्रद्धानं सम्यग्दर्शनमिति ॥१-२॥
ભાષ્યાર્થ– તાત્ત્વિકપદાર્થોની શ્રદ્ધા કરવી અથવા તત્ત્વથી પદાર્થોની શ્રદ્ધા કરવી તે તત્ત્વાર્થશ્રદ્ધાન. તે સમ્યગ્દર્શન છે. તત્ત્વથી એટલે ભાવથી( પરમાર્થથી) નિશ્ચિત કરેલ. જીવ વગેરે તત્ત્વો હવે પછી કહેવાશે. તત્ત્વો એ જ પદાર્થો છે. તે પદાર્થોની શ્રદ્ધા કરવી=વિશ્વાસ ધારણ કરવો. આ પ્રમાણે પ્રશમ, સંવેગ, નિર્વેદ, અનુકંપા અને मास्तिस्य सक्षuj तत्वार्थश्रद्धान सभ्यर्शन छे. (१-२)
टीका-तत्रशब्द उपन्यासार्थः, तत्त्वार्थश्रद्धानं-रुचिरूपं सम्यग्दर्शनंमिथ्यात्वमोहनीयक्षयादिनिमित्तम्, अज्ञानात् परिणामान्तरमिति सूत्रसमुदायार्थः, अवयवार्थाभिधित्सया त्वाह भाष्यकार:-'तत्त्वाना' मित्यादि, तत्त्वानाम्-अविपरीतानां अर्थानाम्-अर्यमाणानां जीवादीनां श्रद्धानम्-एवमेतदिति रुच्यभिप्रीतिरूपं तत्त्वार्थश्रद्धानमिति, आहयत्तत्वं तन्नार्थं विहायान्यद्भवितुमर्हति अर्थो वा तत्त्वमन्तरेणेत्ययुक्तं द्वयोरुपादानं, नायुक्तं, कपिलादिपरिकल्पितस्य नित्यादेरर्थस्य तत्त्वविशेषणायोगात्, अर्थक्रियाविरहेण तस्यानर्थत्वादिति प्रतिपादितमन्यत्र, अर्थश्च स तेषामिति तद्व्यपोहार्थं द्वयाभिधानं, तत्त्वानामर्थानां नित्या(नित्या)दिरूपाणां जीवादीनामित्यर्थः, आह-एवमपि तत्त्वग्रहणमेव कार्य, तस्यार्थाव्यभिचारित्वात्, तथाहि-यद्यपि परिकल्पितोऽर्थो व्यभिचरति तत्त्वं, तथापि तत्त्वमर्थाव्यभिचारि, तद्भावस्तत्त्वमर्थयोगात्, उच्यते, अस्त्येतद्वस्तुस्थित्या, किन्तु तत्त्वमपि परिकल्पितं कैश्चिदिष्यते शून्यताद्यनर्थरूपमिति, न चोभयपदव्यभिचार एव विशेषणविशेष्यभावः, किंत्वेकपदव्यभिचारेऽपि दृष्टो, यथा-अप् द्रव्यं पृथिवी द्रव्यमिति, तत्र अपो द्रव्यमेव, द्रव्यं पुनर् वा अनब् वा, अथवा किं तावद् अनेन ?,