SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ સૂત્ર-૧ શ્રી તત્વાર્થાધિગમસૂત્ર અધ્યાય-૧ अर्थः-अभिधेयोऽस्येति प्रशंसार्थः 'निपातः' निपात्यतेऽर्थादिद्योतकतयेति निपातः, न नामादि पदमित्यर्थः, इदं किल निसर्गसम्यग्दर्शनं, स्वत एव लाभात् पूजितः, अतः अन्तरङ्गत्वेनाव्युत्पत्तिपक्षाश्रयं व्याख्यानं, व्युत्पत्तिपक्षं त्वधिकृत्याह-'समञ्चतेर्वा भावः' सम्पूर्वादञ्चतेर्धातोः क्विप्प्रत्ययान्तस्यैतद्रूपं सम्यगिति, समञ्चति-गच्छति व्याप्नोति सर्वान् द्रव्यभावानिति सम्यक्, कर्बर्थोऽत्र, यत्तत् दर्शनं रुचिरूपं तत् समञ्चतिसकलद्रव्यास्तिकादिनयमताङ्गीकरणेन गच्छति व्याप्नोति जीवादीन् पदार्थान्, एवं यदा दृष्टिः प्रवर्तते तदा सम्यगिति कथ्यते, वेति विकल्पार्थः, इह किलाधिगमसम्यग्दर्शनाश्रयं व्याख्यानं, तस्य प्रायो द्रव्यास्तिकाद्यधिगमेनैव प्रवृत्तिरिति, एवं सम्यक्शब्दं निरूप्य दर्शनशब्दनिरूपणायाह-'भावे(वः) दर्शनमिति', इह नैकस्मिन् कारके ल्युड् भवति करणादिके, पश्यति स तेन तस्मिस्तस्मात्, तत् सर्वापोहेन विशिष्ट एव कारके भावाख्ये खल्वयं द्रष्टव्यः, दृष्टिदर्शनमित्यर्थः, भावार्थगर्भमेतदेवाह-'दृशे'रित्यादिना, दृशेर्धातोः, दर्शनमिति यदेतद्रूपं भावाभिधायि तद् दृशेरिति भावः, अर्थस्याव्यभिचारिणी सर्वेन्द्रियानिन्द्रियार्थप्राप्तिः, प्राप्तिः-उपलब्धिः, व्यभिचरत्यवश्यमिति व्यभिचारिणी, सा चैकनयमतावलम्बिनी सामान्यमेवास्ति न विशेषा इत्यादि, कारणान्तरेणापक्षेपात्, न व्यभिचारिणी अव्यभिचारिणी, या सर्वनयमतावलम्बिनी अस्ति सामान्यं विशेषानुविद्धमित्यादिरूपाऽप्रतिपक्षतया सत्या, एनामेव कथयति-'सर्वेन्द्रियानिन्द्रियार्थप्राप्ति'रिति, 'सर्वाणि'-निरवशेषाणि 'इन्द्रियाणि' इन्द्रस्य-जीवस्य लिङ्गानि स्पर्शनादीनि मनःषष्ठानि तेषामर्थाः-स्पर्शादयः तेषामिन्द्रियानिन्द्रियार्थानां प्राप्तिः-उपलब्धिः स्वतः परतो वा तदर्थप्रकाशनोत्तरकालभाविनी रुचिः अध्यवसायरूपा दर्शनं, यदेवम्भूतं दर्शनं तद्वैशिष्ट्येन द्योतकमपेक्षत इत्याह-तत् सम्यग्दर्शनं, एतदुक्तं भवति-यत्रानन्तरोदिता प्राप्तिस्तत् सम्यग्दर्शनं, एतदेव
SR No.022485
Book TitleTattvarthadhigam Sutram Part 01
Original Sutra AuthorN/A
AuthorRajshekharsuri, Dharmshekharvijay, Divyashekharvijay
PublisherArihant Aradhak Trust
Publication Year2014
Total Pages410
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy