________________
શ્રી તત્ત્વાર્થાધિગમસૂત્ર અધ્યાય-૧
સૂત્ર-૧ 'अभावे'-अलाभे 'असाधनानि'-अनिर्वर्तकानीत्यतः समुदायवाचकत्वान्मोक्षमार्गशब्दस्य न्याय्य एकवचननिर्देशः, आह-इत्येष त्रिविधो मोक्षमार्ग इत्यनेनैव गतार्थमेतत्, न, सामस्त्याङ्गत्वात्, प्रत्येकसाधनत्वेऽपि त्रिविधत्वाविरोधात्, असिपरश्वादिच्छेदसाधनेषु तथा तथा दर्शनादिति, 'अतस्त्रयाणां'-सम्यग्दर्शनादीनां ग्रहणम्'-आश्रयणं मोक्षार्थिना कर्तव्यमिति विधिः । एतेषामेव लाभविधिमाह-'एषां च' इत्यादिना, एषां इति दर्शनादीनां, चः समुच्चये, यथा समस्तानां मुक्तिहेतुता प्रतिपन्ना एवमिदमपि च प्रतिपत्तव्यं, 'पूर्वस्य लाभ' इति सूत्रक्रममङ्गीकृत्य पूर्वस्य-सम्यग्दर्शनस्य लाभे-प्राप्तौ 'भजनीयं' विकल्पनीयं स्याद्वा न वेति, 'उत्तरं' ज्ञानं चारित्रं च, तथा देवनारकतिरश्चां मनुष्याणां केषाञ्चित् सम्यग्दर्शनलाभेऽपि नाचारादिगोचरं विशिष्टं ज्ञानं, तथा केषाञ्चिन्मनुष्याणां तल्लाभेऽपि न सामायिकादि विशिष्टं चारित्रमिति, 'उत्तरलाभे तु सूत्रक्रमप्रामाण्याच्चारित्रलाभे 'नियतो' निश्चितः 'पूर्वलाभः' ज्ञानलाभः, तदभावे सम्यक्चारित्राभावात्, एवं ज्ञानलाभे नियतो दर्शनलाभः, तदभावे सम्यग्बोधायोगात्, आह-ज्ञानचारित्रे अधिकृत्य युक्तमुक्तमेतत्, तयोः कालभेदेनापि भावात्, ज्ञानदर्शने पुनरयुक्तं, युगपद्भावादिति, तथाहि-यदैव मिथ्यात्वमोहनीयक्षयोपशमादेः सम्यग्दर्शनं तदैव मत्यादिज्ञानमिति, उच्यते- अस्ति एतत्, तथापि ज्ञानावरणीयक्षयोपशमादिनिमित्तं ज्ञानं तथारुचिपरिणामभावे भवतीति तत्पूर्वकमुच्यते, न किञ्चिदत्रायुक्तम्, अत एव कस्यचित् सम्यग्दर्शनलाभानन्तरं मृतस्य विशिष्टं ज्ञानं न भवत्यपीति व्यापिनी भजना, कृतमत्र प्रसङ्गेन, अक्षरगमनिकामात्रफलत्वात् प्रस्तुतारम्भस्येति ॥ सूत्रोपन्यस्तान् सम्यग्दर्शनाद्यवयवान् प्रविभागतो व्याचिख्यासुराह-'तत्र सम्यग्' इत्यादि, 'तत्र' इत्यादि वाक्योपन्यासः, 'सम्यगिति-इतिशब्देनार्थाद्व्यवच्छिन्नः सम्यक्शब्दो गृह्यते, स किमित्याह-'प्रशंसार्थः'-प्रशंसा-श्लाघा