________________
સૂત્ર-૧
શ્રી તત્ત્વાર્થાધિગમસૂત્ર અધ્યાય-૧ यस्य स त्रिविधः, कोऽसौ ? इत्याह-सूत्रोक्तो 'मोक्षमार्ग' इति, अत्र मोक्षः कर्मविमुक्तः आत्मोच्यते तस्य मार्गः-शुद्ध्यापादनं, तत् सम्यग्दर्शनादिभिः क्रियत इति तान्येव मोक्षमार्गः, यथा(दा)पीषत्प्राग्भाराधरोपलक्षितं क्षेत्रं मोक्षस्तदाप्याकालं तत्प्राप्तये तान्येव मोक्षमार्ग इति भावः, अत्र मोक्षमार्ग एष इत्यस्य त्रिविध इत्येतद्विवरणमिति, न मोक्षमार्गस्यैतावदेवोपदेशनमित्याह-'तं पुरस्ताद्' इत्यादि, तंमोक्षमार्गमनन्तरोक्तं, पुरस्तादिति-अस्मात् सूत्रादुपरितनसूत्रेषु 'लक्षणतः' लक्षणं-स्वरूपं ततः तत्त्वार्थश्रद्धानादिलक्षणमाश्रित्य 'विधानतश्च' भेदतश्च निसर्गाधिगमद्वारेण क्षयोपशमद्वारेण वा, चः समुच्चये, "विस्तरेण' इत्युद्दिष्टसंक्षेपापेक्षया प्रपञ्चेन 'उपदेक्ष्याम' इति भणिष्यामः, स्वपरानुग्रहार्थं, यद्येवं किमनेन संक्षेपार्थाभिधायिनाऽऽद्यसूत्रोपन्यासेनेति, अत्राह-'शास्त्रानुपूर्वी त्यादि, प्रधानपुरुषार्थशासनाच्छास्त्रं-प्रक्रान्तमेव, तस्यानुपूर्वी-परिपाटी तस्या 'विन्यासः'-रचना तदर्थं, तुशब्दाल्लाभक्रमप्रदर्शनार्थं च, 'उद्देशमात्रं' इत्यविशिष्टपदार्थाभिधानमुद्देशस्तन्मात्रं 'इदं' सम्यग्दर्शनादिसूत्रमुच्यते-अभिधीयते सूत्रकारेण, एतदुक्तं भवतिअनेन क्रमेण सम्यग्दर्शनादीनि वक्ष्यामः, अयं चामीषां लाभक्रम इति प्रदर्शनार्थमादाविदं उच्यते, संग्रहप्रतिज्ञानादिति, मोक्षमार्ग इत्येकवचननिर्देशप्रयोजनमाह-'एतानि च' इत्यादिना, एतानि च प्रागुद्दिष्टस्वरूपाणि सम्यग्दर्शनादीनि, चशब्दः हिशब्दार्थो निपातः, स च यस्मादर्थः, 'समस्तानि' इति सर्वाणि, 'मोक्षसाधनानि'निःश्रेयसनिवर्तकानि, त्रिफलावदारोग्यकर्तृणि इत्यर्थः, विप्रतिपत्तिनिरासार्थमर्थप्राप्यं सिद्धमप्येतदाह-'एकतरे'त्यादि, विप्रतिपत्तिश्च ज्ञानमेव मोक्षसाधनमिति ज्ञानवादिनः, क्रियैवेति क्रियावादिनः, अतत्त्वं चैतत्, न केवलं ज्ञानमिष्टसिद्धये सत्क्रियारहितत्वात् पङ्गवत्, न च क्रियामात्रं विशिष्टज्ञानरहितत्वादंधवदिति, अत आह-'एकतरस्यापि' सम्यग्दर्शनादेः