________________
સૂત્ર-૧
શ્રી તત્ત્વાર્થાધિગમસૂત્ર અધ્યાય-૧ __ "दर्शनमिति" शन श६ मा अर्थमा छ. 'दर्शन' मे ॥ ३५ છે તે ભાવને કહેનારું છે અને ત્રણ ધાતુથી બનેલું છે. વ્યભિચાર દોષથી રહિત સર્વ ઈન્દ્રિયો અને મનના વિષયભૂત પદાર્થોનું જ્ઞાન એ સમ્યગ્દર્શન છે. પ્રશસ્ત(=શ્રેષ્ઠ) દર્શન તે સમ્યગ્દર્શન અથવા સંગત દર્શન તે સમ્યગ્દર્શન. એ પ્રમાણે જ્ઞાન અને ચારિત્રમાં સમ્યફ શબ્દનો मर्थ वो. (१-१)
भाष्यटीका- अत्र सम्यग्दर्शनादीन्येवेत्यवधारणं द्रष्टव्यम्, अन्यथा अन्यस्यापि मोक्षमार्गत्वे अमीषां प्रेक्षापूर्वकारिणां उपन्यासायोगात्, अन्यभावेऽपि गुणवत्त्वात् अमीषां उपन्यासोऽविरुद्ध एवेति चेत्, न, एतद्गुणविमुक्तानामन्येषां तन्मार्गत्वविरोधात्, मोक्षस्यैकरूपत्वात्, मनुष्यलोकादेव च तत्र गमनादिति, मोक्षमार्ग इति चैकवचननिर्देशः समुदितानामेव मोक्षमार्गत्वख्यापनार्थ इति सूत्रपिण्डार्थः । अवयवाऑभिधित्सया आह भाष्यकार:-'सम्यग्दर्शनं' इत्यादि अत्र सम्यक्शब्दः दर्शनशब्दसन्निधावपि श्रूयमाणः प्रत्येकमभिसम्बध्यते, सम्यग्दर्शनं सम्यग्ज्ञानं सम्यक्चारित्रमिति, आह-सम्यग्दर्शनसहाययोञ्जनचारित्रयोः सम्यक्त्वाव्यभिचाराद्गतार्थः प्रत्येकाभिसम्बन्धः ?, उच्यते, सत्यमेतत्, किन्तु सम्यग्दर्शनसहाययोरपि न सामायिकादिज्ञानदेशविरतिचारित्रयोः साक्षान्मोक्षमार्गत्वम्, अपि तु विशिष्टयोरेवेति तत्संपरिग्रहार्थः प्रत्येकाभिसम्बन्धः, तत्र मिथ्यात्वमोहनीयक्षयक्षयोपशमोपशमसमुत्था तत्त्वरुचिः सम्यग्दर्शनं, ज्ञानावरणक्षयक्षयोपशमसमुत्थः तत्त्वावबोधो ज्ञानं, चारित्रमोहनीयक्षयक्षयोपशमोपशमसमुत्था तु सदसत्क्रियाप्रवृत्तिनिवृत्तिलक्षणा विरतिः चारित्रं, चारित्रमिति-अयमितिशब्दः इयत्तां दर्शयति, एतावन्त्येव मोक्षमार्गो, न न्यूनान्यधिकानि वा, 'एष' इत्ययमेव य इतिनाऽवधृतस्वभावो वक्तृश्रोतृबुद्धिगोचरो, नान्यः, अधिकृतेयत्ताया विशेषात् संख्यामाह- 'त्रिविध' इति तिस्रो विधा:-प्रकारा अनन्तरप्रदर्शिता