________________
૨૪૮ શ્રી તત્ત્વાર્થાધિગમસૂત્ર અધ્યાય-૧
सूत्र-30 टीका-सर्वद्रव्यपर्यायेषु केवल(स्य)विषयनिबन्धः अनन्तज्ञेयविषयमेतदिति सूत्रसमुदायार्थः । एनमेव प्रकटयन्नाह भाष्यकार:-'सर्वद्रव्येषु' धर्मादिषु सर्वपर्यायेषु चोत्पादादिषु केवलज्ञानस्य विषयनिबन्धोगोचरव्यापारो भवति, कथमेतदेवमित्याह-'तद्धी'त्यादिना तत् केवलज्ञानं यस्मात् सर्वभावग्राहकं भूतभव(द्भाविभाव)ग्राहकं, मा भूदुपचारतो लोक एवेत्याह-'संभिन्नलोकालोकविषयं' संभिन्नौ-सम्पूर्णौ स्वपरपर्यायोपेतौ लोकालोको धर्मादिसमन्वितासमन्विताकाशरूपौ विषयोगोचरो यस्य तत् तथा, ज्ञानप्रकर्षतामस्याह-'नातःपरं ज्ञानमस्ति' अतःकेवलज्ञानात् परं-प्रधानतरं ज्ञानं नास्ति, अनेनाप्रकाशितं ज्ञेयं तर्हि परं भविष्यतीत्याशझ्याह-'न चे'त्यादि, न च केवलज्ञानविषयात् परं दुरवबोधं सूक्ष्मतया प्रधानतरं किञ्चिद्-अन्यद् ज्ञेयमस्ति, षष्ठास्तिकायादि, अन्यभाववैकल्येनेतराभावरूपतया पञ्चानामेव प्रतीतेरिति । केवलस्यैव पर्यायानाह-'केवल'मित्यादिना, तत्र केवलमेकम् अन्यज्ञानासम्पर्कात्, परिपूर्ण-सर्वतः सकलखण्डशो भवनात्, समग्रम्-अन्यज्ञानाधिकसर्वविषयग्रहणात्, असाधारणं मत्यादिभिरतुल्यं क्षायिकत्वात्, निरपेक्षम्आलोकाद्यपरतन्त्रमुत्तमबोधत्वात्, विशुद्धम्-एकान्तविमलं सकलावरणविगमात्, सर्वभावख्यापकं धर्मादिपर्यायप्ररूपकं, ततस्तथाविधदेशनाभावात्, लोकालोकविषयं-सर्ववस्त्वालम्बनं, निरावरणंसर्वज्ञात्मस्वभावत्वात्, अनन्तपर्यायम्-अनन्तपरिणामं, ज्ञेयानन्तत्वादित्यर्थः, इत्येतत् पर्यायशब्दाभिधायकमिति ॥१-३०॥
ટીકાર્થ કેવળજ્ઞાનનો વિષયવ્યાપાર સર્વદ્રવ્ય-સર્વપર્યાયોમાં છે. કેવળજ્ઞાનનો વિષય અનંત શેય પદાર્થો છે. આ પ્રમાણે સૂત્રનો સમુદિત मर्थ छ. साविषयने ४ स्पष्ट ४२त भाष्य।२ 5 छ- सर्वद्रव्येषु= ધર્માસ્તિકાય આદિ સર્વદ્રવ્યોમાં અને ઉત્પાદ આદિ સર્વપર્યાયોમાં કેવળજ્ઞાનનો વિષયવ્યાપાર થાય છે.