________________
૨૨૪
શ્રી તત્ત્વાર્થાધિગમસૂત્ર અધ્યાય-૧ સૂત્ર-૨૩ तियावत् द्वीपा-जम्बूद्वीपादयः (तेषु) समुद्रा-लवणादयः तेषु 'पृथिवीषु' च रत्नप्रभादिकासु विमानेषु-ज्योतिर्विमानादिषु, तिर्यग् द्वीपसमुद्रेषु ऊर्द्ध विमानेषु अधः पृथिवीषु यदवधिज्ञानमुत्पन्नं भवति तत् क्रमशः संक्षिप्यमाणं प्रतिपतति सर्वान् द्वीपान् पश्यन् स तेषामेकांशं पुनर्न प्रेक्षते, शेषं पश्यति, पुनर्द्वियोजनं न पश्यत्येवं क्रमेण हीयमानं तावद्धीयते यावदङ्गलासङ्ख्येयभागः शेषः, तदाह-'आ अङ्गुलस्यासङ्ख्येयभागात्' अङ्गलपरिमाणस्य क्षेत्रस्य अङ्ख्येयानि खण्डानि कृतस्य एकस्मिन् अङ्ख्येयभागे यावन्ति द्रव्याणि समवस्थितानि तानि पश्यतीत्यर्थः, ततः कदाचिदवतिष्ठते कदाचित्प्रतिपतत्येव, तान्यपि न पश्यतीत्यर्थः, अङ्गलशब्दस्य परिभाषितोऽर्थो द्रष्टव्यः, अन्यथा अङ्गलसङ्ख्येयभागादि भवितव्यं, अन्येषां त्वेवंविधं भाष्यमिति, कथं हीयत इति चेद् दृष्टान्तमुपन्यस्यति-'परिच्छिन्ने'त्यादि, परितः-सर्वासु दिक्षु छिन्ना परिच्छिन्ना, इन्धनं-पलालादि तस्योपादानं-प्रक्षेपः तस्य सन्ततिःनैरन्तर्यं, सा विशिष्यते-परिच्छिन्नेति, नातःपरमिन्धनप्रक्षेपः, परिच्छिना इन्धनोपादानसन्ततिः, एतदुभयं पुनरपि शिखाविशेषणं-परिच्छिन्ना इन्धनोपादानसन्ततिर्यस्यामग्निशिखायां सा परिच्छिन्नेन्धनोपादानसन्ततिः, अग्नेः शिखा अग्निशिखा, परिच्छिन्नेन्धनोपादानसन्ततिश्चासावग्निशिखा च परिच्छिन्नेन्धनोपादानसन्तत्यग्निशिखा तया तुल्यमेतद् हीयमानमवधिज्ञानं, यथा अपनीतेन्धनाग्निज्वाला नाशमाशु प्रतिपद्यते तद्वदेतदपीति, 'वर्द्धमानकं यदङ्गलासङ्ख्येयभागादिषु' अङ्गलासङ्ख्येयभागमात्रे क्षेत्रे, ततोऽङ्गलमात्रे ततो रनिमात्र इत्यादिषूत्पन्नं तावद्वर्द्धते यावत् सर्वलोको-धर्माधर्मद्रव्यपरिच्छिन्नो व्याप्तो भवति, तदा 'आ सर्वलोकात्' कथमिव वर्धते ?, अत आह-'अधरोत्तरे'त्यादि, अधरः-अधोवर्ती उत्तरः-उत्तरवर्ती तावेवारणी ताभ्यामधरोत्तरारणिभ्यां निर्मथनं-संघर्षणं तेन निष्पन्नः-उद्भूतः, तदेवमुत्पन्नोऽवधिर्वृद्धिमधिगच्छति, तथाह