________________
સૂત્ર-૨૩
શ્રી તત્ત્વાર્થાધિગમસૂત્ર અધ્યાય-૧
૨૨૩
तथैतत् षड्विधमुपाधिभेदात्, तथा चाह- 'अवधिज्ञाने' त्यादिना, अवधिज्ञानस्य-प्रागुक्तस्वरूपस्यावरणीयम् - आच्छादकं यत् कर्म - भास्करस्येवाभ्रादि तस्य क्षयोपशमाभ्याम् उक्तस्वरूपाभ्यां समुदिताभ्यामेव, नैकैकस्मात् क्षयादेः, भवत्यवधिविज्ञानं, 'षड्विधं' षट्प्रकारं, 'तद्यथे' ति प्रकारोपन्यासार्थः, ‘अनानुगामिक' मित्यादि, उपन्यस्य चार्थं कथयति'नात्रे'त्यादिना, 'तत्र’तेषु षट्सु 'अनानुगामिकं' अनुगच्छत्यवश्यमनुगामि तदेवानुगामिकमाद्यर्थं अनुगमप्रयोजनं वा अनुगामिकं तस्य प्रतिषेधेऽनानुगामिकमिति, अर्थमस्य भावयति- 'यत्रे' त्यादिना, यत्र क्षेत्रे प्रतिश्रयस्थानादौ 'स्थितस्ये 'ति कायोत्सर्गक्रियादिपरिणतस्य' उत्पन्नम्उद्भूतं भवति, तेन चोत्पन्नेन यावत्तस्मात् स्थानात् न निर्याति तावज्जानात्यर्थान्, ततो (प्रच्युतस्य - ) अपक्रान्तस्य - स्थानान्तरवर्त्तिनः 'प्रतिपतति' नश्यति, कथमिव ?, उच्यते - ' प्रश्नादेशपुरुषज्ञानवत्' प्रश्नं प्रच्छनं जीवधातुमूलानां तं प्रश्नमादिशतीति प्रश्नादेश: प्रश्नादेशश्चासौ पुरुषश्चेति विग्रहस्तस्य ज्ञानं तेन तुल्यमेतद् दृश्यं, पुरुषप्रश्नादेशज्ञानवदित्येवं गमकत्वं, अथवा प्रश्नादेशः -प्रधानपुरुषः तन्निष्ठः-तत्परायणस्तस्य ज्ञानं तद्वदिति का पुनर्भावना ?, यथा नैमित्तिकः कश्चिदादिशन् कस्मिँश्चिदेव स्थाने शक्नोति संवादयितुं, न सर्वत्र, पृच्छ्यमानमर्थम्, एवं तदप्यवधिज्ञानं यत्र स्थितस्योपजातं तत्रस्थ एवोपलभते तेन, नान्यत्रेति, 'आनुगामिकम्' एतद्विपरीतमिति, यत्र क्वचिदाश्रयादुत्पन्नं ततस्तस्य क्षेत्रान्तरगतस्यापि न प्रतिपतति-न प्रच्यवते, भास्करप्रकाशवत्, आदित्यप्रकाशो हि तदनुयायीति प्रतीतं, क्षेत्रान्तरे तत्परोक्षतया संदेहात् प्रत्यक्षं निदर्शनान्तरमाह- 'घटरक्तभाववच्च' न हि घटस्यापाकात् समुपजातो रक्तभावः गृहादेस्तडागादिगतस्यापि प्रतिपतति, 'हीयमानकं' हीयते क्रमेण अल्पीभवति यत् तद्धीयमानकं, ‘असङ्ख्येयेषु' अतिक्रान्तशीर्षप्रहेलिकागणितेष्वि