SearchBrowseAboutContactDonate
Page Preview
Page 299
Loading...
Download File
Download File
Page Text
________________ સૂત્ર-૨૩ श्री तत्वाषिरामसूत्र अध्याय-१ ૨૨૫ 'उपात्ते'त्यादिना, उपात्तं-प्रक्षिप्तं शुष्कम्-आद्रं न भवतीति करीषादि तेनोपात्तेन शुष्केण उपचीयमानः वृद्धि गच्छन्नित्यर्थः, आधीयमानःप्रक्षिप्यमाणोऽन्योऽपि पुनरिन्धनानां पलालादीनां राशि:-समूहो यत्राग्नौ स अधरोत्तरारणिनिर्मथनोत्पन्नोपात्तशुष्कोपचीयमानप्रचीयमानेन्धनराश्यग्निस्तेन तुल्यमेतदिति, यथा अग्निः प्रयत्नादुपजातः सन् पुनरिन्धनलाभाद् विवृद्धिमुपगच्छति एवं परमशुभाध्यवसायलाभादसौ पूर्वोत्पन्नो वर्द्धत इत्यर्थः, 'अनवस्थित'मिति नावतिष्ठते क्वचिद् एकस्मिन् वस्तुनि, शुभाशुभानेकसंयमस्थानलाभात्, यत आह-हीयते योजनं दृष्ट्वा तस्यैवार्द्धमवगच्छति तस्याप्यर्द्धमेवमादि वर्धते चार्द्धक्रोशं दृष्ट्वा क्रोशमवैत्यर्द्धयोजनमेवमादि, कदाचिदुभयीमवस्थामनुभवति वर्धते हीयते च तस्यैव कोशस्यैकस्यां दिश्यपरकोशो वृद्धः, अन्यस्यां तस्य क्रोशस्यार्द्ध हीनमिति, अथवा 'प्रतिपतति चोत्पद्यते च' क्वचित् कालान्तरे उदितं पुनर्न पश्यति पुनश्चोदेति, तत्क्षयोपशमवैचित्र्यात् पुनः पुनर्नाशोत्पादस्वभावम्, ऊर्मिवत्, यथा महति सरसि स्वच्छवारिभारिणि पूर्वे प्रबलानिलवेगनिक्षिप्यमाणजलपटले अदभ्रोर्मयः समुपजाताः समासादितरोधसः शनैः शनैः शमं भजन्ते, पुनश्चाभिघातविशेषात् प्रादुर्भवन्ति, अतो यथोर्मयोऽनवस्थिता एवमवधिज्ञानमपि, 'अवस्थित मिति अवतिष्ठते स्म अवस्थितं, यया मात्रयोत्पन्नं तां मात्रां न जहातीतियावत्, एतदाह'यावति क्षेत्रे' इत्यादि, यावति-यत्परिमाणे क्षेत्रे अङ्गुलासङ्ख्येयभागादावुत्पन्नमासर्वलोकात् 'तत' इति तस्मात् क्षेत्रात् न प्रतिपततिन नश्यति, सर्वकालमास्ते, कुतोऽवधिर्यावदास्त इति ?, उच्यते'आकेवलप्राप्तेः' आङ् मर्यादायां केवलं ज्ञानं तस्य प्राप्तिः-लाभः आकेवलप्राप्तिः (तां) यावत्, एतदाह-'यावति क्षेत्र' इत्यादि, केवलज्ञानं न प्राप्नोति, प्राप्ते तु केवले छाद्मस्थिकं ज्ञानं व्यावर्त्तते, अथवा आमरणात्, तदाह-'आ भवक्षयात्' भवो मनुष्यादिजन्म यावत्तत्र जीवति
SR No.022485
Book TitleTattvarthadhigam Sutram Part 01
Original Sutra AuthorN/A
AuthorRajshekharsuri, Dharmshekharvijay, Divyashekharvijay
PublisherArihant Aradhak Trust
Publication Year2014
Total Pages410
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy