SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ શ્રી તત્ત્વાર્થાધિગમસૂત્ર અધ્યાય-૧ શ્લોકાર્થ— જે સમ્યગ્દર્શનથી શુદ્ધ જ્ઞાન અને ચારિત્ર પ્રાપ્ત કરે છે તેના દુઃખનું કારણ પણ આ (મનુષ્ય) જન્મ સારી રીતે પ્રાપ્ત કરાયેલો થાય छे, अर्थात् सइज थाय छे. ( . १ ) 22 टीका- 'सम्यग्दर्शनशुद्धं यो ज्ञानं विरतिमेव चाप्नोती' त्यादि, सम्यग्दर्शनं-शुद्धात्मपरिणामरूपं वक्ष्यमाणं तेन शुद्धं-कुग्रहमलाभावेन यथावस्थितविषयपरिच्छेदकं, 'य' इति भवस्थसत्त्वोद्देशः, 'ज्ञानं' मत्यादि वक्ष्यमाणं पञ्चधा, तत्राद्यत्रयेणाधिकारः, तस्याशुद्धस्यापि मिथ्यादृष्टेरज्ञानसंज्ञितस्य भावात्, उत्तरद्वयं तु तच्छुद्धमेव भवति, मिथ्यादृष्टेरसम्भवात्, तथा ‘विरतिः' सामायिकादिरूपा वक्ष्यमाणा पञ्चधैव, तत्राप्याद्यत्रयेणाधिकारः, उत्तरद्वयं च जन्मनो दुःखनिमित्तत्वाभावात् तां विरतिमेव च, कारणकारणत्वेन तु शुभज्ञानशुद्धाम्, आप्नोति - प्राप्नोति, वक्ष्यति 'विरतिर्नाम ज्ञात्वा अभ्युपेत्याकरण' मिति (तत्त्वा० भा-६ - १) एवम्भूतं 'दुःखनिमित्तमपीदं तेन सुलब्धं भवति जन्म' दुःखयतीति दुःखं, परितापयतीत्यर्थः, तद्धि शारीरादि संसारो वा, निमित्तं हेतु:, दुःखस्य निमित्तं दुःखनिमित्तं जन्मनि सति रोगशोकादिभावात् संसारावहक्लिष्टकर्मभावाच्च, दुःखनिमित्तमपि तथाविधविराधनया दीर्घभवानुबन्धित्वेन, आस्तां अविराधनयैव अल्पभवभावाय दुःखनिमित्तमिति, इदमिति मानुषं जन्म प्रत्यक्षं दर्शयति, अन्यत्र समग्रविरतेरभावात्, नारकतिर्यग्देवेषूदग्रदुःखमोहभोगोपपत्तेः, 'तेने 'ति यत्तदोर्नित्याभिसम्बन्धात् यच्छब्दोद्दिष्टमेव सत्त्वं निर्दिशति, योऽनन्तरमुक्तः सत्त्वः तेन 'सुलब्धं' सुप्राप्तं भवति 'जन्म' जायतेऽस्मिन्निति जन्म, भवग्रहणमित्यर्थः, अस्य संसारसमुद्रादुत्तीर्णप्रायत्वात्, यद्यपि नोत्तीर्णस्तथापि ग्रन्थिभेदादिभिरुत्तरणशक्तिकरणात्, अत एव तथा ( तस्य ) सुलब्धमिति षष्ठीं विहाय प्रकृत एवाह, प्रतिहतवेक्त्रत्वाभिधायिना तेन सुलब्धमिति तृतीयामाह ॥१॥ १. उत्तरद्वयेन न, तद्वतो जन्मनो दुःखनिमित्तत्वाभावादिति स्यात् । २. वचनात् येन तेनेति प्र. ।
SR No.022485
Book TitleTattvarthadhigam Sutram Part 01
Original Sutra AuthorN/A
AuthorRajshekharsuri, Dharmshekharvijay, Divyashekharvijay
PublisherArihant Aradhak Trust
Publication Year2014
Total Pages410
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy